________________ उद्दिष्टानयनकरणम् 49 वर्जितत्वात् चतुष्कं टालयित्वा शेषावन्त्यादारभ्य द्वावतौ पञ्चकत्रिकरूपौ गतौ ततस्तदग्रेतनो द्विकश्चतुर्थपङ्क्तौ लेख्यः / तथा शेषाणां पञ्चानां तृतीयपङ्क्तिपरिवर्तेन 2 रूपेण भागे लब्धौ द्वौ / अत्रापि 'नट्ठद्दिढे'त्यादि गाथारीत्या टालयित्वा चतुष्कं, शेषौ द्वौ अङ्कौ पञ्चकत्रिकौ गतौ / तदग्रेतनो द्विको नष्टस्थाने लिख्यते परमेवं समयभेदः स्यादिति तं मुक्त्वा तृतीयपङ्क्तौ तदग्रेतन एकको लिख्यते / एकशेषत्वात् शेषावको त्रिकपञ्चकौ क्रमेण लेख्यौ यथा 35124 / इदं एकचत्वारिंशत्तमं रूपम् / एवं सर्वोदाहरणेषु ज्ञेयम् // 15 / / // 16 // अथोद्दिष्टानयने करणमाह - अंताइ गय अंका, निय 2 परिवट्ट ताडिया सव्वे / उद्दिट्ठभंगसंखा, इगेण सहिया मुणेयव्वा // 17 // व्याख्या - यावन्तोऽङ्काः सर्वपङ्क्तिष्वन्त्यादयो गताः स्युः कोऽर्थः ? स्वस्वपरिवर्ताङ्कसङ्ख्यवारान् वर्तित्वोत्थिताः स्युः तेऽङ्काः स्व 2 परिवत्र्तेस्ताडिताः गुणिताः पश्चादेकयुता उद्दिष्टभङ्गस्य सङ्ख्या स्यात् / उदाहरणं यथा 23451, इदं कतिथम् रूपम् ? इति केनाऽपि पृष्टम् / अत्रान्त्यपङ्क्तौ दृष्ट एककः / अतोऽन्त्यादयः पश्चानुपूर्व्या पञ्चकचतुष्कत्रिकद्विकरूपाश्चत्वारोऽङ्का गताः / ततश्चत्वारः पञ्चमपङ्क्तिपरिवर्तेन 24 रूपेण गुणिता जाता षण्णवतिः / तथा चतुर्थपङ्क्तौ दृष्टः पञ्चकोऽतोऽत्र गताङ्काभावः / तृतीयपङ्क्तौ दृष्टश्चतुष्कः / अत्र पञ्चको गतः स्यात् परं 'नदृद्दिष्टे'त्यादिगाथया वज्जितत्वात् तद् गतमध्ये न गण्यते / तेनाऽत्राऽपि गताङ्काभावः / एवं द्वितीयपङ्क्तौ पञ्चकचतुष्को प्रथमपङ्क्तौ च पञ्चकचतुष्कत्रिका गताः स्युः परं वर्जितत्वेन गताङ्केषु न