________________ 50 उद्दिष्टानयनकरणम् गण्यन्ते / अतस्तत्रापि गताङ्काभावः / ततः षण्णवतिरेकयुता जाता सप्तनवतिः / इदं सप्तनवतितमं रूपम् / तथा 32154 इदं कतिथम् ? इति पृष्टे, अत्राऽन्त्यपङ्क्तौ दृष्टश्चतुष्कः / ततः एकः पञ्चकरूपोऽङ्को गतः / ततः एकश्चतुर्विशत्या परिवर्तेन गुण्यते जाता 24 / चतुर्थपङ्क्तौ पञ्चकस्य दृष्टत्वात् गतोऽङ्कः कोऽपि नास्ति / तृतीयपङ्क्तौ दृष्टः एककः 'नटुद्दिद्वे'त्यादिगाथोदितत्वात् पञ्चकचतुष्को गताङ्कमध्ये न गण्येते, ततस्त्रिकद्विकरूपौ द्वावेव गतौ द्वौ च स्वपरिवर्तेन द्विकरूपेण गुणितौ जाताश्चत्वारः पूर्वचतुर्विंशतिमध्ये क्षिप्त्वा जाता 28 / द्वितीयपङ्क्तौ दृष्टो द्विकोऽत्राऽपि पञ्चकचतुष्कयोः प्राग्वत् वर्जितत्वात् एक एव त्रिकरूपोऽङ्को गतः स्वपरिवर्तेनैकरूपेण गुणितो जात एक एव पूर्वाष्टाविंशतिमध्ये क्षिप्तः जाता एकोनत्रिंशत् / प्रथमपङ्क्तौ तु प्राग्वत् पञ्चकचतुष्कयोर्वज्जितत्वेन गतोऽङ्कः कोऽपि नास्ति / सर्वमीलने एकोनत्रिंशदेकेन युता त्रिंशत् / तत इदं त्रिंशत्तमं रूपम् / तथा 23415 अयं कतिथो भङ्गः ? इति केनापि पृष्टम् / अत्रान्त्यपङ्क्तौ पञ्चकस्य दृष्टत्वात् न कोऽपि गतोऽङ्कः / चतुर्थपङ्क्तौ प्राक्तनरीत्या पञ्चकस्य वज्जितत्वाच्चतुष्कत्रिकद्विकरूपास्रयोऽङ्का गतास्ततस्त्रयः स्वपरिवर्तेन 6 रूपेण गुणिता जाताः 18 / तृतीयपङ्क्तौ पञ्चकस्य वजितत्वात् गतोऽङ्को नास्ति / एवं द्वितीयप्रथमपङ्क्त्योरपि / ततोऽष्टादश एकयुता जाता 19 / अयं एकोनविंशो भङ्गः / तथा 21453, अयं कतिथः ? इति पृष्टे, अत्रान्त्यपङ्क्तौ त्रिकस्य दृष्टत्वात् पञ्चकचतुष्करूपौ द्वौ अङ्कौ गतौ / ततो द्वौ स्वपरिवर्तेन 24 रूपेण गुणितौ जाता 48 / चतुर्थपङ्क्तौ पञ्चकस्य दृष्टत्वेन गतोऽङ्को