________________ गताङ्कगणनेऽपवादः नास्ति / तृतीयपङ्क्तावपि पञ्चकस्य प्रोक्तरीत्या वज्जितत्वान्न कोऽपि गतोऽङ्कः / द्वितीयपङ्क्तौ पञ्चकचतुष्कत्रिकाणामपोदितत्वात् द्विकरूप एक एव गतोऽङ्कः / स एकेन गुणितो जातः एक एव, 48 मध्य क्षिप्तो जाता (एकोनपञ्चाशत् / प्रथमपङ्क्तौ पञ्चकचतुष्कत्रिकाणां वर्जितत्वात् गतोऽङ्को नास्ति / तत) एकोनपञ्चाशदेकयुता जाता पञ्चाशत् / अयं पञ्चाशत्तमो भङ्ग इति वाच्यम् / एवं सर्वत्र ज्ञेयम् // 17 // गताङ्कगणनेऽपवादमाह - नट्ठद्दिट्टविहाणे, जे अंका अंतमाईपंतीसु / पुट्वि ठविया न हि ते, गयंकगणणे गणिज्जंति // 18 // व्याख्या - नष्टोद्दिष्टविधौ येऽङ्काः पश्चानुपूर्व्याऽन्त्यादिषु पङ्क्तिषु पूर्वं स्थापिता भवन्ति, ते गताङ्कसङ्ख्यायां क्रियमाणायां न गण्यन्ते, अन्त्यादारभ्याङ्कक्रमायाताऽपि टाल्यन्ते / ते हि अन्त्यादिपङ्क्तिषु स्थितत्वेनापरपङ्क्तिषु अद्यापि नाधिकृताः / अतस्तान् टालयित्वा गताङ्कानां सङ्ख्या कार्येत्यर्थः / भावना नष्टोद्दिष्टोदाहरणेषु कृता / / 18 / / अथ कोष्ठकप्रकारेण 'नष्टोद्दिष्टे' आनिनीषुः पूर्वं कोष्ठकस्थापनामाह - पढमाए इगुकोट्टो, उड्डअहो आययासु पंतीसु / एगेगवड्ढमाणा, कोट्ठा सेसासु सव्वासु // 19 // व्याख्या - इहोर्ध्वाध आयताः कोष्ठकपङ्क्तयो रेखाभिः क्रियन्ते / तत्र प्रथमपङ्क्तौ एक एव कोष्ठकः शेषपङ्क्तिषु पूर्व 2 पङ्क्तित उत्तरोत्तरपङ्क्तिष्वधस्तात् सङ्ख्ययैकैकवर्द्धमानाः कोष्ठकाः कार्याः // 19 //