________________ 45 समयभेदस्वरूपम् शतरूपा सम्पूर्णा / ततः चतुर्थपङ्क्तौ षट्करूपः परिवर्ताङ्कः / समयभेदकारिणमन्त्यमपि पञ्चकं मुक्त्वा चतुष्कत्रिकद्विकैककाः षट् षट् वारान् स्थाप्याः / ततः षट्वारान् पञ्चकः स्थाप्यः / ततः समयभेदकरं चतुष्कं मुक्त्वा त्रिकद्विकैककाः षट्पट्सङ्ख्यान् वारान् स्थाप्याः / ततः समयभेदकरं त्रिकं मुक्त्वा पञ्चकचतुष्कद्विकै काः षट्सङ्ख्याः स्थाप्याः / ततः समयभेदकं द्विकं मुक्त्वा पञ्चकचतुष्कत्रिकैककाः षट्सङ्ख्याः स्थाप्याः / ततः समयभेदकरमेककं त्यक्त्वा पञ्चकचतुष्कत्रिकद्विकाः षट्पट्सङ्ख्याः स्थाप्याः / जाता चतुर्थपङ्क्तिः सम्पूर्णा / अथ तृतीयपङ्क्तौ द्विकरूपः परिवर्ताङ्कः / ततः पञ्चकं चतुष्कं समयभेदकरं मुक्त्वा त्रिकद्विकैकका द्विर्द्विः स्थाप्याः / ततः पञ्चकं त्रिकं च मुक्त्वा चतुष्कद्विकैककाः द्विह्निः स्थाप्याः / ततश्चतुष्कत्रिकैककाः, ततश्चतुष्कत्रिकद्विकाः, ततस्रिकद्विकैककाः, ततः पञ्चकद्विकैककाः, ततः पञ्चकत्रिकद्विकाः, एवमन्त्यादयोऽङ्काः समयभेदकरानङ्कान् मुक्त्वा द्विद्धिः स्थाप्याः तावत् यावत् सम्पूर्णा तृतीया पङ्क्तिः स्यात् / आदिपङ्क्तिद्वये च शेषावकौ पूर्वभङ्गे क्रमात् द्वितीयभङ्गे तु उत्क्रमात् स्थाप्यौ यावत् द्वेऽपि पङ्क्ती सम्पूर्णे स्याताम् // 12 // // 13 / / अथ समयभेदस्वरूपम् प्राह - जंमि य निक्खित्ते, खलु सो चेव हविज्ज अंकविन्नासो / सो होइ समयभेओ, वज्जेयव्वो पयत्तेण // 14 // व्याख्या - स्पष्टा // 14 // ___ अथ नष्टानयने करणमाह - नटुंको भाइज्जइ, परिवटेहिं इहंतिमाइहिं / लद्धा अंताई गया, तयग्गिमं जाण नटुं तु // 15 //