________________ 43 परिवर्ताङ्कानयने द्वितीयतृतीयौ प्रकारौ पुव्वगणभंगसंखा, अहवा उत्तरगणंमि परिवट्टो / निय 2 संखा, निय 2 गणअंतंकेण भत्तव्वा // 10 // व्याख्या - अथवाशब्दः प्रकारान्तरेण पूर्वगणस्य या भङ्गसङ्ख्या ‘एगस्स एगभंगो' इत्यादिका सैवोत्तरगणे परिवर्तस्तत्तुल्य इत्यर्थः / तथाहि - एककरूपस्य पूर्वगणस्य या भङ्गसङ्ख्या एकरूपा, सैवोत्तरगणे द्विकरूपे परिवर्त्तः / तथा द्विकगणस्य भङ्गसङ्ख्या द्विकरूपा, उत्तरगणे त्रिकरूपे परिवर्तोऽपि द्वयरूपः / तथा त्रिकगणे भङ्गाः षट्, ततश्चतुर्थगणे परिवर्तोऽपि षट्करूपः / तथा चतुर्थगणे भङ्गाः 24, पञ्चमगणे परिवर्तोऽपि 24 रूपः / एवमग्रतोऽपि ज्ञेयम् / अथोत्तरार्द्धन परिवर्त्तानयने तृतीयं प्रकारमाह, 'निय 2' इति / अथवा निज 2 गणस्य भङ्गसङ्ख्या निजनिजेन गणस्यान्त्याङ्केन भक्ता परिवर्त्तः स्यात् / तथाहि - एककगणस्य सङ्ख्या भङ्गसङ्ख्यैकरूपा साऽन्त्याङ्केनात्रैककरूपेण भक्ता लब्ध एकोऽयमाद्यपङ्क्तौ परिवर्त्तः / तथा द्विकगणे भङ्गसङ्ख्या द्वयरूपा सा द्विकगणस्यान्त्याङ्केन द्विकरूपेण भक्ता लब्ध एकोऽत्रापि परिवर्तो एक एव / तथा त्रिकगणे भङ्गसङ्ख्या षट्स्वरूपा, सा त्रिकगणस्यान्त्याङ्केन त्रिकरूपेण भक्ता लब्धौ द्वौ त्रिकगणे परिवर्त्तः / तथा चतुर्थगणे भङ्गसङ्ख्या 24 रूपा, सान्त्याङ्केन चतुष्करूपेण भक्ता लब्धाः षट्, अत्रायं परिवर्त्तः / एवमग्रतोऽपि ज्ञेयम् // 10 // अथैतानेव परिवर्त्तान् पूर्वानुपूर्व्या गाथाबन्धेनाह -