________________ 2 परिवर्ताङ्कानयने करणम् पत्थारकरणमवरं, भणामि परिवट्टअंकेहिं // 8 // व्याख्या - इह एकादीनां पदानामुधिआयताः पङ्क्तयः प्रस्तार्यन्ते / ततस्तासु पङ्क्तिषु प्रस्तारस्य करणमपरं भणामि परिवर्ताकैः / इह यस्यां पङ्क्तौ यावद्भिवारैरेकैकं पदं परावर्त्यते तस्यां 2 पङ्क्तौ तदङ्कसङ्ख्यायाः परिवर्ताङ्क इति सञ्ज्ञा // 8 // तत्र पूर्वं परिवर्ताङ्कानयने करणमाह - अंतंकेण विभत्तं, गणगणियं लद्ध अंकु सेसेहि। भइयव्वो परिवट्टो, नेया नवमाइ पंतीसु // 9 // व्याख्या - गणस्य-गच्छस्य प्रस्तावादत्र नवकरूपस्य गणितं विकल्पभङ्गसङ्ख्या 3,62,880 रूपं, तदन्त्याङ्केनाऽत्र नवकरूपेण भक्तं लब्धं 40,320 / ततो नवमपङ्क्तावयं परिवर्त्ताको ज्ञेयः / कोऽर्थः ? अस्यां पङ्क्तावेतावत एतावतो वारान्नवमाष्टमसप्तमादीनि पदान्यधोऽधो न्यसनीयानि / तथा लब्धोऽङ्कः 40,320 शेषरूपैरष्टभिर्भज्यते लब्धं 5,040 / अयमष्टमपङ्क्तौ परिवत्र्तोऽस्य च प्राग्वत् शेषैः सप्तभिर्भागे लब्धं 720 / सप्तमपङ्क्तावयं परिवर्त्तः अस्य च प्राग्वत् शेषैः षड्भिर्भागे लब्धं 120 / षष्ठपङ्क्तौ परिवर्ताङ्कोऽयं तस्य च पञ्चभिर्भागे लब्धं 24 पञ्चमपङ्क्तौ परिवर्त्तः / अस्य चतुर्भिर्भागे लब्धं 6 चतुर्थपङ्क्तौ परिवर्त्तः / अस्य तु त्रिभिर्भागे लब्धं द्वयं 2 तृतीयपङ्क्तौ परिवर्त्तः / अस्य द्वाभ्यां भागे लब्धं 1 द्वितीयपङ्क्तौ परिवर्त्तः / तस्याप्येकेन भागे लब्धः 1 एकः प्रथमपङ्क्तौ परिवर्त्तः / / 9 / / अथ एतानेव परिवर्तान् प्रकारान्तरेणानयति -