________________ 41 भङ्गप्रस्तारकरणम् शेषान् स्थापय अङ्कानिति गम्यं वक्ष्यमाणगाथारीत्या सदृशाङ्कस्थापना समयभेदस्तं मुक्त्वा-टालयित्वेत्यर्थः / / तत्र पञ्चपदीमाश्रित्योदाहरणं-यथा 12345 एषाऽऽनुपूर्वी / अत्र एकस्य सर्वज्येष्ठत्वेन तस्यापरज्येष्ठाभावान्न किञ्चित्तदधः स्थाप्यते / ततो द्विकस्यैकको ज्येष्ठः स्यादतः स तदधः स्थाप्यते / अग्रत उपरीति उपरितनपङ्क्तिसदृशोऽङ्कराशिः 345 रूपः स्थाप्यते / शेषोऽत्र द्विकस्ततः सः पूर्वं स्थाप्य: / जाता द्वितीया पङ्क्तिः 21345 / अथ तृतीयपङ्क्तौ आद्यस्य द्विकस्य एकको ज्येष्ठोऽस्ति, परं तस्मिन् स्थाप्यमानेऽग्रत उपरितनाङ्क 1345 रूपस्थापने सदृशाङ्कस्थापनारूप: समयभेदः स्यात् / ततो द्विको मुच्यते एकस्य च ज्येष्ठाभावात्त्यागः / ततः एककं द्विकं च मुक्त्वा त्रिकस्य ज्येष्ठो द्विकोऽस्ति / तदधः स्थाप्यते / अग्रत उपरिसदृशौ 45 रूपावतौ स्थाप्यौ पूर्वं च शेषावेकः त्रिको ज्येष्ठादिक्रमात् स्थाप्यौ / जाता तृतीयपङ्क्तिः 13245 / अथ चतुर्थपङ्क्तौ एककस्य ज्येष्ठाभावात्तं मुक्त्वा त्रिकस्याऽधो ज्येष्ठः द्विकः स्थाप्यते, परं तथा समयभेदः स्यात्ततो द्विकं त्यक्त्वा सर्वज्येष्ठः एककः स्थाप्यः / अग्रत उपरितनसदृशाः 245 रूपा अङ्काः स्थाप्याः / शेषश्चात्र त्रिकः, स पूर्वं स्थाप्यः / जाता चतुर्थी पङ्क्तिः 31245 / एवमनया प्रक्रियया तावज्ज्ञेयं यावच्चरमपङ्क्तौ पञ्चकचतुष्कत्रिकद्विकैककाः 54321 // 7 // अथ प्रस्तारकरणान्तरं विवक्षुः प्रस्तावनागाथामाह -