Book Title: Nyayavatara and Nayakarnika
Author(s): Siddhasena Divakar, Vinayvijay, A N Upadhye
Publisher: Jain Sahitya Vikas Mandal
View full book text ________________
न्यायावतारः, २७
तदेवं व्यावहारिकप्रमाणस्य प्रत्यक्षपरोक्षस्वार्थपरार्थादिभेदभिन्नस्य लक्षणं प्रतिपाद्याधुना यैः पारमार्थिक समस्तावरणविच्छेदलभ्यमशेषार्थगोचरं केवलज्ञानं नाभ्युपगम्यते, तन्मतोद्दलनार्थ तल्लक्षणमभिधित्सुराह -
सकलावरणमुक्तात्म केवलं यत्प्रकाशते । प्रत्यक्षं सकलात्मसततप्रतिभासनम् ॥ २७ ॥ 5
सकलं समस्तमावृणोत्यावियते वा अनेनेत्यावरणम्, तत्स्वरूपप्रच्छादनं कर्मत्यर्थः, सकलं च तदावरणं च सकलावरणं तेन मुक्तो रहितः आत्मा स्वरूपं यस्य तत्तथा, अत एव केवलमसहायं आवरणक्षयोपशमविचित्रतयैव बोधस्य नानाकारतया प्रवृत्तेः, सामस्त्येन पुनरावरणनिर्दलने विबन्धककारणवैकल्यादेकाकारतयैव तस्य विवर्तनात, अतो ज्ञानान्तरनिरपेक्षं यत् प्रकाशते प्रथते 10 निरुपाधिकं द्योतते इत्यर्थः, तत्परमार्थतः प्रत्यक्षम् । तदिदं सकलावरणमुक्तात्म इति हेतुद्वारेण तथा केवलं यत् प्रकाशते इति स्वरूपतो निरूप्याधुना कार्यद्वारेण निरूपयन्नाह-सकलात्मनां समस्तवस्तुरूपाणां सततप्रति भासनम् अनवरतप्रकाशनं सकलात्मसततप्रतिभासनमिति, प्रतिभास्यतेऽनेनेति प्रतिभासनं, आत्मनो धर्मरूपतया भेदवद्विवक्षितं ज्ञानमिति यावत् । 15 अस्य च पारमार्थिकत्वम्, निरुपचरितशब्दार्थोपपत्तेः । तथा हि-अक्षशब्दो जीवपर्यायस्ततश्चाक्षं प्रति वर्तते इति प्रत्यक्षम, यत्रात्मनः साक्षाद् व्यापारः, व्यावहारिक पुनरिन्द्रियव्यवहितात्मव्यापारसंपाद्यत्वात् परमार्थतः परोक्षमेव, धूमादग्निज्ञानवत्, तिरोधानाविशेषात् । ननु च प्रसिद्धं लक्ष्यमनूद्याप्रसिद्धं लक्षणं विधीयते, सर्वत्रायं न्यायः, अप्रसिद्ध पुनर्लक्ष्ये लक्षणमभिधीयमानमम्ब- 20 रारविन्दिनीकुसुमलक्षणवनिर्गोचरतां यायात्, तदिदं स्वरूपतोऽप्रसाध्य लक्षणमभिदधानस्य कोऽभिप्रायः इति । अत्रोच्यते-ये ये मिथ्यावलेपाध्मातान्तःकरणाः प्रमाणप्रसिद्धमप्यदः प्रति विप्रतिपद्यन्ते, तेषां ध्यान्ध्यीकृतबुद्धित्वादवधारणीयतामनेन दर्शयति । किमस्य प्रतिपादकं प्रमाणमिति चेत्, एतद् ब्रूमःसमस्ति समस्तवस्तुविचारगोचरं विशददर्शनम्, तद्गोचरानुमानप्रवृत्तेः । 25 इह यद्यद् गोचरमनुमानं प्रवर्तते, तस्य तस्य ग्राहक किंचित् प्रत्यक्षमुदयपदवीं समासादयति, यथा चित्रभानोः । प्रवर्तते च सकलार्थविषयमनुमानम्, अतस्तदवलोकिना विशददर्शनेनापि भाव्यमिति । सर्वार्थविषयकं किमनुमानं प्रवर्तते इति चेत्, इदमपि ब्रूमः-इह यद्यदस्ति तत्तत् सर्व स्थित्युदयापवर्गसंसर्गमनुभवति, वस्तुत्वात्, यद्यद्वस्तु तत्तत् स्थेमजन्मप्रलयैः क्रोडीकृतम् । 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376