Book Title: Nyayavatara and Nayakarnika
Author(s): Siddhasena Divakar, Vinayvijay, A N Upadhye
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
124
द्वात्रिंशिका, ४
न महत्यणुता न चाप्यणौ विभुता संभवतोह वादिनाम् । भवतस्तु तथा च तन्न च प्रतिबोधावहितैर्विनिश्चितम् ॥ १९ ॥ सुखदुःखविवेकसाधनं विहितं तीर्थमिदं जिन त्वया । न च सो ऽस्त्यपयाति यस्तयोरथवास्य प्रतिषिद्धशासनम् ॥ २० ॥ तमसश्च न केवलस्य च प्रतिसंसर्गमशन्ति सूरयः । त्वयि सर्वकषायदोषले जिन कैवल्यमचिन्त्यमुद्गतम् ॥ २१ ॥ पुरुषस्य न केवलोदयः पशवश्चाप्यनिवृत्तकेवलाः ।। न च सत्यपि केवले प्रभुस्तव चिन्त्येयमचिन्त्यवद्गतिः ॥ २२ ॥ वपुषो न बहिर्मनःक्रिया मनसो नापि बहिर्वपुःक्रिया । न च तेन पृथङ् न चैकधा द्विषतां ते ऽयमष्टिगोचरः ॥ २३ ॥ न च दुःखमिदं स्वयं कृतं न परैर्नोभयजं न चाकृतम् । नियतं च न चाक्षरात्मकं विदुषामित्युपपादितं त्वया ॥ २४ ॥ न परो ऽस्ति न चापरस्त्वयि प्रतिबुद्धप्रतिभस्य कश्चन । न च तावविभज्य पश्यति प्रतिसंख्यानपदातिपूरुषः ॥ २५ ॥ गतिमानथ चाक्रियः पुमान् कुरुते कर्म फलैर्न युज्यते । फलभुक् च न चार्जनक्षमो विदितो यविदितो ऽसि तैर्मुने ॥ २६ ॥ स्वत एव भवः प्रवर्तते स्वत एव प्रविलीयते ऽपि च । स्वत एव च मुच्यते भवादिति पश्यंस्त्वमिवाभवो भवेत् ॥ २७ ॥ असमीक्षितवाङ्महात्मसु प्रचयं नैति पुमान् महात्मसु । असमीक्ष्य च नाम भाषसे परमश्चासि गुरुमहात्मनाम् ॥ २८॥ भवबीजमनन्तमुज्झितं विमलज्ञानमनन्तमजितम् । न च होनकलो ऽसि नाधिकः समतां चाप्यनिवृत्य वर्तसे ॥ २९ ॥ सति चक्षुषि तत्प्रयोजनं न करोषीत्यभिशप्यते पुमान् । भवतस्त्वलमेष संस्तवो विदुषामन्यपथानिवृत्तये ॥ ३० ॥ जननं च यथा महद्भयं तदभावश्च यथोत्तमो ऽभयम् । विमृशन्ति विनीतचक्षुषो यदि पश्यन्त्यनुपास्य ते वचः ॥ ३१॥ स्तवमहमभिधातुमीश्वरः क इव यथा तव वक्तुमीश्वरः । त्वयि तु भवसहस्रदुर्लभे परिचय एव यथा तथास्तु नः ॥३२॥
॥ इति चतुर्थी द्वात्रिंशिका ॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org