Book Title: Nyayavatara and Nayakarnika
Author(s): Siddhasena Divakar, Vinayvijay, A N Upadhye
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
द्वात्रिंशिका, २०-२१
167
दोषव्यक्तिप्रसंख्यानविषयातिशयात्ययः । परमैश्वर्यसंयोगज्ञानेश्वर्य विकल्पयेत् ॥ ३१ ॥ प्रसिद्धप्रातिभास्येति कामतस्तीर्थभक्तयः । ननु श्रीवर्धमानस्य वाचो युक्तः परस्परम् ॥ ३२ ॥ ॥ इति दृष्टिप्रबोधद्वात्रिंशिका विंशतितमी ॥ २० ॥
[२१]
सदा योगसात्म्यात्समद्धतसाम्यः प्रभोत्पादितप्राणिपुण्यप्रकाशः । त्रिलोकीशवन्द्यस्त्रिकालज्ञनेता स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १॥ शिवो ऽथादिसंख्यो ऽथ बुद्धः पुराणः पुमानप्यलक्ष्यो ऽप्यनेको ऽप्यथैकः । प्रकृत्यात्मवृत्त्याप्युपाधिस्वभावः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २॥ जुगप्साभयाज्ञाननिद्राविरत्यङ्गभहास्यशुग्द्वेषमिथ्यात्वरागैः। न यो रत्यरत्यन्तरायः सिषेवे स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३ ॥ न यो बाह्यसत्त्वेन मैत्री प्रपन्नस्तमोभिन नो वा रजोभिः प्रणुन्नः । त्रिलोकीपरित्राणनिस्तन्द्रमुद्रः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ४॥ हृषीकेश विष्णो जगन्नाथ जिष्णो मुकुन्दाच्युत श्रीपते विश्वरूप । अनन्तेति संबोधितो यो निराशैः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ५॥ पुरानङ्गकालारिराकाशकेशः कपाली महेशो महावत्युमेशः । मतो यो ऽष्टमूर्तिः शिवो भूतनाथः स एकः परात्मा गतिमें जिनेन्द्रः ॥६॥ विधिब्रह्मलोकेशशम्भःस्वयम्भचतुर्वक्त्रमख्याभिधानां निधानम् । ध्रुवो ऽथो य ऊचे जगत्सर्वहेतुः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥७॥ न शलं न चापं न चक्रादि हस्ते न लास्यं न हास्यं न गीतादि यस्य । न नेत्रे न गात्रे न वक्त्रे विकारः स एकः परात्मा गतिमें जिनेन्द्रः ॥ ८ ॥ न पक्षी न सिंहो वृषो नापि नायं न रोषप्रसादादिजन्मा विडम्बः । न निन्द्यैश्चरित्रैर्जने यस्य कम्पः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ९॥ न गौरी न गङ्गा न लक्ष्मीर्यदीयं वपुर्वा शिरो वाप्युरो वा जगाहे। यमिच्छाविमुक्तं शिवश्रीस्तु भेजे स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org