Book Title: Nyayavatara and Nayakarnika
Author(s): Siddhasena Divakar, Vinayvijay, A N Upadhye
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
156
द्वात्रिंशिका, १६
प्रवर्तितव्यमेवेति प्रवर्तन्ते यदा गुणाः । अथ कि संप्रमुग्धोसि ज्ञानवैराग्यसिद्धिषु ॥ ११ ॥ धर्मादष्टाङ्गता बुद्धेर्न विरोधकृते च यः । वक्तुराद्यनिमित्तत्त्वाद्वितथप्रत्ययादपि ॥ १२ ॥ असतो हेतुतो वेति प्रतिसंधौ च विग्रहः । असंस्तु हेतु/मात्रं कर्तेति च विशिष्यते ॥ १३ ॥ भङ्गरश्रवणाद्यर्थसंविन्मात्रे निरात्मके । रागादिशान्तौ यत्नस्ते कथं कस्य किमित्ययम् ॥ १४ ॥ कर्मजः प्रत्ययो नाम कर्म च प्रत्ययात्मकम् । तत्फलं निरयाद्यश्च न च सर्वत्र विस्मृतः ॥ १५ ॥ ज्ञानमव्यभिचारं चेज्जिनानां मा श्रमं कृथाः। अथ तत्राप्यनेकान्तो जिताः स्मः किं तु को भवान् ॥ १६ ॥ एकेन्द्रियाणामव्यक्तेरजात्यन्तरसंगतौ । व्यक्तानां च तदादौ का रागादिप्रविभक्तयः ॥ १७ ॥ न संसरत्यतः कश्चित् स्वपरोभयहेतुकम् । अभिजातिविशेषात्तु मिथ्यावादमुखो जनः ॥ १८ ॥ चैतन्यमपि नः सत्त्वो मोहादिज्ञानलक्षणः। तदादि तद्वत्संकल्पो मिथ्याराशिः प्रवर्तते ॥ १९ ॥ तुल्यप्रसंगो नानात्वे तुल्येनकेन बाध्यते । अकस्मात्कारणावेशौ हेतुधर्माविशेषतः ॥ २० ॥ स्पर्शनादिमनो ऽन्तानि भूतसामान्यजातिमान् । मनोहनियतं द्रव्यं परिणाम्यनुमूर्ति च ॥ २१ ॥ स्पर्शकविषयत्वादिस्तत्त्वान्ताः क्रमजातयः। अरूपादनभिव्यक्तभेदाः कृष्णाभिजातयः ॥ २२ ॥ यथा दुःखादि निरयस्तिर्यक्षु पुरुषोत्तमाः। रक्तायामजनायां तु सुखजा न गुणोत्तराः ॥ २३ ॥ हिंसाविद्याभिचारार्थः पूर्वान्ते मध्यमः शमः । सम्यग्दर्शनभावान्ताः प्रतिबुद्धस्त्वयोजितः ॥ २४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org