SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः, २७ तदेवं व्यावहारिकप्रमाणस्य प्रत्यक्षपरोक्षस्वार्थपरार्थादिभेदभिन्नस्य लक्षणं प्रतिपाद्याधुना यैः पारमार्थिक समस्तावरणविच्छेदलभ्यमशेषार्थगोचरं केवलज्ञानं नाभ्युपगम्यते, तन्मतोद्दलनार्थ तल्लक्षणमभिधित्सुराह - सकलावरणमुक्तात्म केवलं यत्प्रकाशते । प्रत्यक्षं सकलात्मसततप्रतिभासनम् ॥ २७ ॥ 5 सकलं समस्तमावृणोत्यावियते वा अनेनेत्यावरणम्, तत्स्वरूपप्रच्छादनं कर्मत्यर्थः, सकलं च तदावरणं च सकलावरणं तेन मुक्तो रहितः आत्मा स्वरूपं यस्य तत्तथा, अत एव केवलमसहायं आवरणक्षयोपशमविचित्रतयैव बोधस्य नानाकारतया प्रवृत्तेः, सामस्त्येन पुनरावरणनिर्दलने विबन्धककारणवैकल्यादेकाकारतयैव तस्य विवर्तनात, अतो ज्ञानान्तरनिरपेक्षं यत् प्रकाशते प्रथते 10 निरुपाधिकं द्योतते इत्यर्थः, तत्परमार्थतः प्रत्यक्षम् । तदिदं सकलावरणमुक्तात्म इति हेतुद्वारेण तथा केवलं यत् प्रकाशते इति स्वरूपतो निरूप्याधुना कार्यद्वारेण निरूपयन्नाह-सकलात्मनां समस्तवस्तुरूपाणां सततप्रति भासनम् अनवरतप्रकाशनं सकलात्मसततप्रतिभासनमिति, प्रतिभास्यतेऽनेनेति प्रतिभासनं, आत्मनो धर्मरूपतया भेदवद्विवक्षितं ज्ञानमिति यावत् । 15 अस्य च पारमार्थिकत्वम्, निरुपचरितशब्दार्थोपपत्तेः । तथा हि-अक्षशब्दो जीवपर्यायस्ततश्चाक्षं प्रति वर्तते इति प्रत्यक्षम, यत्रात्मनः साक्षाद् व्यापारः, व्यावहारिक पुनरिन्द्रियव्यवहितात्मव्यापारसंपाद्यत्वात् परमार्थतः परोक्षमेव, धूमादग्निज्ञानवत्, तिरोधानाविशेषात् । ननु च प्रसिद्धं लक्ष्यमनूद्याप्रसिद्धं लक्षणं विधीयते, सर्वत्रायं न्यायः, अप्रसिद्ध पुनर्लक्ष्ये लक्षणमभिधीयमानमम्ब- 20 रारविन्दिनीकुसुमलक्षणवनिर्गोचरतां यायात्, तदिदं स्वरूपतोऽप्रसाध्य लक्षणमभिदधानस्य कोऽभिप्रायः इति । अत्रोच्यते-ये ये मिथ्यावलेपाध्मातान्तःकरणाः प्रमाणप्रसिद्धमप्यदः प्रति विप्रतिपद्यन्ते, तेषां ध्यान्ध्यीकृतबुद्धित्वादवधारणीयतामनेन दर्शयति । किमस्य प्रतिपादकं प्रमाणमिति चेत्, एतद् ब्रूमःसमस्ति समस्तवस्तुविचारगोचरं विशददर्शनम्, तद्गोचरानुमानप्रवृत्तेः । 25 इह यद्यद् गोचरमनुमानं प्रवर्तते, तस्य तस्य ग्राहक किंचित् प्रत्यक्षमुदयपदवीं समासादयति, यथा चित्रभानोः । प्रवर्तते च सकलार्थविषयमनुमानम्, अतस्तदवलोकिना विशददर्शनेनापि भाव्यमिति । सर्वार्थविषयकं किमनुमानं प्रवर्तते इति चेत्, इदमपि ब्रूमः-इह यद्यदस्ति तत्तत् सर्व स्थित्युदयापवर्गसंसर्गमनुभवति, वस्तुत्वात्, यद्यद्वस्तु तत्तत् स्थेमजन्मप्रलयैः क्रोडीकृतम् । 30 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy