________________
न्यायावतारः, २७
-
तद्यथा – अङ्गुलिरङ्गुलित्ववत्रत्वर्जुत्वापेक्षयति, वस्तु च यदस्ति, अतः प्रस्तुतत्रयाक्रान्तं तदवगन्तव्यम् । इदमेव निखिलार्थगोचरमनेकान्तानुमानं ज्ञानक्रियाभ्यासातिशयान्निखिलावरणविच्छेदे विबन्धककारणाभावाद् विशददर्शनीभवति । न चानुमानप्रवृत्तावप्यनथित्वादिना प्रमातुरप्रवृत्तौ अनुमेयगोचरप्रत्यक्षासंभवेन व्यभिचारश्चोदनीयः, संभवस्य साध्यतयाभिप्रेतत्वात् । न च संभवमात्रेऽस्ति व्यभिचारः, सर्वानुमेयानां संभवत्प्रत्यक्षतया व्याप्तत्वादिति । अथवान्यथानुमानयामः – संभवत्समस्तशुद्धिक आत्मा, विद्यमानशुद्धयुपायत्वात्, इह यो यो विद्यमान शुद्धयुपायः स स संभवत्समस्तशुद्धिकः, यथा विद्यमानक्षारमृत्पुटपाकादिशुद्धयुपायो रत्नविशेष:, तथा च विद्यमानज्ञानाद्यभ्यासशुद्धयुपाय आत्मा, अतः संभवत्समस्तशुद्धिक इति । सामस्त्यशुद्धश्चात्मा ज्ञानज्ञानिनोः कथंचिदभेदात् केवलमभिधीयते इति । ज्ञानाद्यभ्यासः कथं विशुद्धिकारणमिति चेत्, आवरणमलप्रतिपक्षरूपत्वादिति ब्रूमः । प्रतिपक्षरूपता कथमवधारिता इति चेत्, तवैव दर्शनात् । तथा हिदृश्यते ज्ञानांद्यभ्यासतः प्रतिक्षणमावरणविलयः, विशिष्टविशिष्टतरतत्कार्य15 बोधाद्यनुभवात् तदतिशये पुनः सामस्त्योच्छेदः स्यादित्यभिदध्महे । एतेन यत्परे प्रोचुः, यथा – प्रत्यक्षादिप्रमाणपञ्चकगोचरातिक्रान्तत्वात् सर्वार्थसंवेदनमभावाख्यं षष्ठप्रमाणगोचरतां प्रतिपद्यते तदयुक्तम्, तत्संभवस्यानुमानेन प्रतिपादनात् प्रमाणपञ्चकप्रवर्तनाभावासिद्धेः । किं च । प्रमाणपञ्चकं तद्गोचरं न प्रवर्तते इति कथं भवतो निर्णयः । किं नियत देशकालव्याप्त्या, यद्वा समस्तदेशकालास्कन्दनेनेति । यद्याद्यः पक्षः, ततो यथा घटादेः क्वचित् प्रमाणपञ्चकं तद्गोचरं निवर्तमानमभावं साधयति, एवं समस्तवस्तुसंवेदनगोचरमपि तन्निवर्तमानं नियतदेशदशावच्छिन्नमभावं साधयेत्, न सर्वत्र, ततश्च घटादिवत् तद्दुर्निर्वारं स्यात् । अथ द्वितीयः पक्षाः असौ असंभव्येव, समस्तदेशकालवर्तिपुरुपरिषत्संदेदनसाक्षात्कारिणो ह्येवं वक्तुं युक्तम् – यदुत न क्वचित् समस्तार्थसंवेदनमस्ति इति, न भवतः, तथाविधपुरुष संभवानभ्युपगमात् इतरथा य एव कश्चिन्निश्चित्यैवमभिध्यात्, स एव समस्तवस्तुविस्तारव्यापिज्ञानालोकः इति समस्तार्थगोचरसंवेदन सिद्धिरित्यास्तां तावत् ॥ २७ ॥ देवं प्रमाणविषये लक्षणसंख्याविप्रतिपत्ती निराकृत्याधुना क्रमप्राप्तां गोचरविप्रतिपत्ति बहुवक्तव्यत्वादनिराकृत्य तावत् फलविप्रतिपत्त 30 निराधिकीर्षुराह -
25
76
5
10
20
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org