________________
न्यायावतारः, २८-२९
प्रमाणस्य फलं साक्षादज्ञानविनिवर्तनम् । । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥ २८ ॥ द्विविधं हि प्रमाणस्य फलम् – साक्षादसाक्षाच्च, अनन्तरं व्यवहितं चेत्यर्थः । तत्र साक्षादज्ञानमनध्यवसायः प्रमेयापरिच्छित्तिस्तस्य विनिवर्तनं विशेषेण प्रलयापादनं प्रमाणस्य फलम्, अज्ञानोद्दलनद्वारेण तस्य प्रवृत्तः, तस्य 5 च सर्वानर्थमूलतया प्रमात्रपकारित्वात् तन्निवर्तनस्य प्रयोजनता युक्तव, एतच्चानन्तरप्रयोजनं सर्वज्ञानानामेकरूपत्वात् सामान्येनोक्तम् । व्यवहितप्रयोजनं पुनविभागेनाह- केवलस्य सर्वज्ञज्ञानस्य सुखं वैषयिकसुखातीतपरमाह्लादानुभवः, उपेक्षा साक्षात् समस्तार्थानुभवेऽपि हानोपादानेच्छाभावान्मध्यस्थवृत्तिता, ते सुखोपेक्षे फलमित्यर्थः । शेषस्य तद्व्यतिरिक्तप्राकृत- 10 लोकप्रमाणस्यादानं ग्रहणं हार्न परित्यागस्तयोरादानहानयोोर्बुद्धिरादानहानधीः सा फलं इति यावत् । ततश्चादेयानां सम्यग्दर्शनादि स्रक्चन्दनादीनां या दित्सा, तथा हेयानां मिथ्यादर्शनादिविषकण्टकादीनां या जिहासा प्रमाणसाध्या, अप्रमाणात् तदसिद्धेः, प्रेक्षापूर्वकारिणां ततः प्रवृत्त्ययोगादित्युक्तं भवति ॥ २८॥
15 अधुना गोचरविप्रतिपत्ति निराचष्टेअनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥ २९ ॥
अनेके बहवोऽन्ता अंशा धर्मा वा आत्मानः स्वरूपाणि यस्य तदनेकान्तात्मकम् । किं तत् । वस्तु बहिरन्तश्च, गोचरो विषयः सर्वसंविदां समस्त- 20 संवित्तीनाम् । अनेनानेकान्तमन्तरेण संवेदनप्रसरव्यवच्छेदं दर्शयति, भ्रान्तसंवेदनानामप्यनेकान्तोद्योतनपटिष्ठतया प्रवृत्तः, केवलं केषुचिदंशेषु विसंवादकत्वादप्रमाणानि तानि संगीर्यन्ते । तदयमभिप्रायः-यदा संवेदनसामान्यमप्यनेकान्तविरहेण न प्रवर्तितुमुत्सहते, तदा तद्विशेषणभूतं प्रमाणम् एकान्ते प्रवतिष्यते इति दूरापास्तावकाशा एवैषा वार्ता, तथाप्यनादिमिथ्याभिनिवेश- 25 वासितान्तःकरणाः कुदर्शनविप्रलब्धबुद्धयो बहवोऽत्र विप्रतिपद्यन्ते इति सर्वप्रमाणानामनेकान्तगोचरत्वसाधकं प्रमाणमभिधीयते । इह यत्प्रमाणं तत्परस्पराविनिटुंठितानेकधर्मपरिकरितवस्तुनो ग्राहकम, तस्यैव तत्र प्रतिभासमानत्वात्, इह यद्यत्र प्रतिभाति, तदेव तद्गोचरतयाभ्युपगन्तव्यम् । तद्यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org