________________
78
न्यायावतारः, २९
5
निरादीनवनयनप्रभवदर्शने प्रतिभासमानं पाटलतया जपाकुसुमं तथैव तद्गोचरतयाभ्युपगम्यते, परस्पराविभक्तानेकस्वभावाक्रान्तमूर्तिकं च बहिरन्तश्च वस्तु सर्वप्रमाणेषु प्रथते इति, अतस्तदेव तेषां गोचरः । न चेतरेतरविशकलितमिधर्मभाववादिभिः कणभक्षाक्षपादशिष्यकस्तावदस्य हेतोरसिद्धतादिदोषः प्रतिपादयितुं शक्यः, तदभ्युपगममन्तरेण स्वाभिप्रेतवस्तुनोऽवस्थानाभावात् । तथा हि-एकस्मिन् धर्मिणि बहवो धर्मास्ततो भिन्नतनवः कथं वर्तेरन् । भेदाविशेषेण सर्वत्र तवृत्तिप्रसङ्गात् । तत्रैव तेषां समवायान्नान्यत्र वर्तन्ते इति चेत्, ननु सोऽपि समवायो यद्युपकार्योपकारकभावव्यतिरेकेणापि
भवति, ततः सर्वत्राविशेषेण प्रसज्येत, तदभावाविशेषात् । अस्त्येवोपकार्योप10 कारकभाव इति चेत्, हन्त हतोऽसि अनेकोपकारकस्यानेकस्वभावताप्राप्तेः,
तद्विरहेऽनेकोपकारकत्वाभावात् । न हि येन स्वभावेनैकस्योपकरोति तेनैव द्वितीयस्य, तस्य तत्रैवोपयुक्तत्वात्, द्वितीयोपकारकस्वभावस्य तदुपमर्दनद्वारेणोत्पत्तेः, इतरर्थकमेवोपकुर्वस्तिष्ठेत, तदेकस्वभावत्वात् । भिन्नाभिः
शक्तिभिरुपकरोति न भिन्नैः स्वभावः, तेन नानेकान्त इति चेत्, तास्तहि 15 कथं वर्तन्ते इति वाच्यम् । समवायाद् इत्युत्तरेऽसावप्युपकार्योपकारकभाव
मन्तरेण कथं न सर्वत्र इति प्राचीनं चोद्यं पश्चाल्लग्नमनुधावति । उपकार्योपकारकभावाभ्युपगमे पुनरप्यनेकस्वभावताप्रदर्शितयुक्तेः पुनः शक्त्युपकारकभिन्नशक्तिपरिकल्पनेऽप्यनेकान्तान्मोक्षः इति वरमादावेव मत्सरितां विहायानेक
धर्माध्यासितं वस्त्वभ्युपगतं कि भेदकल्पनयास्थान एवात्मना परिक्लेशितेन 20 इति । किं चानेकान्ताभ्युपगमे सत्येष गुणः-परस्परविभक्तेषु संयोगिसंयोग
समवायिसमवायगुणिगुणावयवावविव्यक्तिसामान्यादिषु संयोगसमवायगुण्यवयविसामान्यादीनां संयोगिसमवायिगुणावयवविशेषादिषु वर्तनचिन्तायां यद्दषणजालमुपनिपतति, तदपि परिहृतं भवति, एकान्तभेद एव तदुपपत्तेः,
अनेकान्ते तदुत्थानाभावात् । तथा हि-भिन्नाः खलु संयोगादयः संयोग्या25 दिभ्यो विकल्पयितुं पार्यन्ते-यदुत कथमेत एतेषु वर्तन्ते इति । किमेकदेशेन
यद्वा सामस्त्येन । यद्येकदेशेन, तदयुक्तम्, तेषां निरवयवत्वाभ्युपगमात्, सावयवत्वेऽपि तेभ्योऽवयवेभ्यो यद्यभिन्नाः, ततोऽनेकान्तापत्तिः, एकस्यानेकावयवत्वप्राप्तेः । अथ भिन्नास्तेष्वपि ते कथं वर्तन्ते इति वाच्यम्, एकदेशेन
सामस्त्येन वा । एकदेशपक्षे तदेवावर्तते इत्यनवस्था । अथ सामस्त्येन, 30 तदप्यसाधीयः, प्रत्येकं परिसमाप्ततया संयोगादिबहुत्वप्रसङ्गात्तदभिन्नाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org