________________
न्यायावतारः, २९ पुनःसंयोगादयो न विकल्पभाजो भवन्ति । अभेदपक्षेपि संयोगादिमात्रं संयोग्यादिमानं वा स्यादिति चेन्न, तस्याप्येकान्तेनानभ्युपगमात्, कि तर्हि, अन्यान्या विश्लिष्टस्वरूपा विवक्षया संदर्शनीयभेदाः सर्वे एवैतेऽभ्युपगम्यन्ते, तथाविधानां कुयुक्तिविकल्पोत्थापितदूषणसमूहनिराकरणक्षमत्वात्, अबाधितप्रतिभासेषु सर्वत्र तेषां तथैव प्रतिभासनात्, अन्यथा प्रतिभासमानानामन्यथा 5 परिकल्पने दृष्टहान्यदृष्टपरिकल्पनाद्वारेणासमञ्जसप्राप्तः, तथा च ब्रह्माद्वैतशून्यवादादयः सिद्धिमश्नुवीरन्, विशेषाभावादिति ॥
एतेनास्य हेतोः कापिला अप्यसिद्धतादिदोषमभिधित्सवो मौक्यमानीताः। तथा हि–अन्तरेकं संवेदनमपरापरहर्षविषादाद्यनन्तधर्मविवर्ताक्रान्तरूपं बहिश्च घटादिकमर्थ नवपुराणादिवर्तुलपाथिवत्वाद्यनेकस्वभावावष्टब्धशरीरं साक्षा- 10 ल्लक्षयन्तः कथं तद्विपरीतकथने प्रवर्तेरन् । प्रकृतिपुरुषात्मकं द्रव्यमेवैकं तात्त्विकम्, पर्यायभ्रान्तिजनकः पुनर्विवर्तोऽपारमार्थिक इति चेन्न, द्वयोरपि सर्वप्रमाणेषु प्रकाशमानयोरबाधितयोः सर्वव्यवहारनिबन्धनयोः पक्षपातमन्तरेणैकस्य निह्नोतुमशक्यत्वात् । तथा सति विवर्त एव तात्त्विकः, द्रव्यं पुनरलीकमिति पर्यायपक्षपाती प्रसञ्जयन् दुनिषेधः स्यादिति । अथेत्थमभिद- 15 धीथाः-द्रव्यं सर्वत्राव्यभिचरितरूपत्वात् सत्यम्, पर्यायाः पुनर्व्यभिचारिण इत्यसत्याः । तदयुक्तम्, यदि नाम द्रव्यमभेदरूपत्वात् सर्वत्रानुवर्तते, पर्यायास्तु भेदरूपत्वात् व्यवच्छिद्यन्ते, तथापि तत्सत्यम् इतरेऽलीका इति वक्तुं न पार्यते, न हि नीलं पीतरूपतां न बिति इत्येतावता तदसत्यम्, अतिप्रसङ्गात्, सर्वस्य पररूपपरिहारावस्थायितयालीकत्वप्राप्तेः । अथ द्रव्यमेव पर्यायास्त- 20 दव्यतिरिक्तत्वात् तत्स्वरूपवत्, न सन्ति वा द्रव्यव्यतिरेकिणः पर्यायाः निःस्वभावत्वात् खपुष्पवत् इति प्रमाणयसि, तथा सति पर्याया एव द्रव्यं, तदव्यतिरिक्तत्वात् तत्स्वरूपवत्, नास्ति वा पर्यायव्यतिरिक्तं द्रव्यम् निष्पर्यायत्वात् आकाशकुसुमवदिति इतरोऽपि प्रमाणयन केन वार्यते । तन्न पक्षद्वयेऽपि काचिद्विशेषोपलब्धिरिति । यथैवानन्तसहक्रमवर्तिपर्यायाध्यासितं वस्तु सर्व- 25 प्रमाणेषु प्रकाशते तथैवाभ्युपगन्तव्यम्, तथा चान्यस्याभावात् तदेव तद्गोचर इति स्थितम् ॥
तथा सुगतमतानुसारिणामपि मध्ये सौत्रान्तिकस्तावदस्य हेतोरसिद्धतामाविर्भावयितुंनोत्सहते, तदभ्युपगतिव्यतिरेकेण निजदर्शनव्यवस्थानुपपत्तेः । तथा हि-बहिस्तावदेकं कारणमपरापरसामग्यन्तःपातितयानेककार्यकार्या- 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org