________________
74
न्यायावतारः, २६
नधिकारित्वात्, मातृकापाठशालायोग्यतया विदुषां वादयितुमयुक्तत्वादिति ॥ २५ ॥
तदेवं परार्थानुमानं व्याचक्षाणेन यदुक्तम् – यदुत तत्पक्षादिवचनात्मकमिति तत्पक्षहेतुदृष्टान्तानां साभासानां प्रतिपादनात् प्रायः पर्यन्तितम्, केवलं 5 तत्परोक्षदूषणोद्धारादेव समीचीनतामाबिभति, इत्यमुना प्रस्तावेन दूषणं साभासमभिधातुकाम आह
वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् (?) ॥ दूषणं निरवद्ये तु दूषणाभासनामकम् ॥ २६ ॥
वदनशीलो वादी प्रत्यायकस्तेनोक्ते उपन्यस्ते । कस्मिन् । साधने, 10 साध्यते प्रतिपाद्यप्रतीतावारोप्यतेऽनुमेयं येन तत्साधनम् । तच्चानेकरूपं प्राक्
प्रत्यपादि । तद्यथा क्वचिद्धे तुरेवैकः, क्वचित्पक्षहेतू, क्वचित् पक्षहेतुदृष्टान्ताः, क्वचित्ते एव सोपनयाः, क्वचित् सनिगमनाः, क्वचिदेकैकतच्छुद्धिवृद्धयेति, प्रतिपाद्यस्य क्वचित् कथंचित् प्रत्याययितुं शक्यत्वात्, तत्प्रत्यायनोपायस्य च
साधनत्वादिति, तत्रेह सम्यक्साधनस्य दूषयितुमशक्यत्वात्, साधनाभास एव 15 तत्सामोपपत्तेः । साधनाभासमेव दूषणोपनिपातात् प्रागवस्थायामनिर्जातं
सामान्येन साधनध्वनिनोक्तम्, तत्र प्रोक्तदोषाणां प्रत्यक्षादिनिराकृतपक्षासिद्धादिहेतुसाध्यादिविकलदृष्टान्ताद्युपन्यासलक्षणानामुद्भावनं प्राश्निकानां पुरतः प्रकाशनं यत् तद् दृष्यते- स्वाभिप्रेतसाध्यप्रत्यायनवैकल्यलक्षणं
विकृति नीयते साधनमनेनेति दूषणमिति ज्ञेयम् । अधुना तदाभासमाह20 निर्गतं सम्यक्प्रयुक्तत्वादवद्यं पापं पक्षादिदोषलक्षणं दौष्टयमस्मादिति
निरवद्यम्, तस्मिन् साधने वादिनोक्ते इति वर्तते, तथापि मत्सरितया प्रमृद्योदरं यदविद्यमानानां दोषाणामुद्भावनं तद्दषणस्थानोपन्यस्तत्वात् तत्कार्याकरणात् सम्यक्साधने दोषोद्धावनस्य प्रलापायमानत्वात् दूषणवदाभासते इति दूषणाभासमिति, तदेव नाम संज्ञा यस्य तत्तथा, समर्थसाधनोपन्यस्तत्वात् साधिते साध्ये सतामप्यपशब्दालंकारादिदोषाणां यदुद्भावनं तदपि दूषणाभासनामकमिति । तुशब्देन विशेषेणार्थेन दर्शयति – वस्तुसिद्धयर्थं वादप्रवृत्तेः, तस्य सिद्धत्वात्, अपशब्दादीनामप्रस्तुततया तवारेण दोषप्रकाशनस्यासंबद्धप्रलापरूपत्वात्, इतरथा तावन्मात्रेणैव परापाकरणसिद्धः समर्थसाधनान्वेषणप्रयत्नो विशीर्येत, प्रयोजनाभावादिति ॥ २६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org