________________
न्यायावतारः, २५
Jain Education International
133
-
विपरीतव्यतिरेकश्चेति, तेऽस्माभिरयुक्तत्त्वान्न दर्शयितव्याः । तथा हिअव्यतिरेकस्तैर्दशितः, यथा - अवीतरागः कश्चिद् विवक्षितः पुरुषः, वक्तृत्वादिति, अत्र वैधर्म्य दृष्टान्तः: - यः पुनर्वीतरागो न स वक्ता, यथोपलखण्ड इति । यद्यपि किलोपलखण्डादुभयं व्यावृत्तम्, तथापि व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकित्वमिति । अयुक्तश्चायं वक्तुम्, अव्यतिरेकिताया हेतुदोषत्वात् । यदि हि दृष्टान्तबलेनैव व्यतिरेकः प्रतिपाद्येत, तदा तथाविधसामर्थ्यविकलस्य तदाभासता युज्येत, न चैतदस्ति, प्राक्प्रवृत्तसंबन्धग्रहणप्रवणप्रमाणगोचरस्मरणसंपादनार्थं दृष्टान्तोपादानात्; न ह्येकत्र यो यदभावे न दृष्टः स तदभावे न भवतीति प्रतिबन्धग्राहिप्रमाणव्यतिरेकेण सिध्यति, अतिप्रसङ्गात्; तस्मादसिद्धप्रतिबन्धस्य हेतोरेवायं दोषो न दृष्टान्तस्येति । 10 तथाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकावपि वक्तुमयुक्तौ तयोर्वक्तृदोषत्वात् । तथा हि- अप्रदर्शितव्यतिरेकस्तैरुक्तः, यथा - नित्यः शब्दः कृतकत्वादाकाशवत् इति । अत्र विद्यमानोऽपि व्यतिरेको वादिना वचनेन नोद्भावित इति दुष्टता । विपरीतव्यतिरेकः पुनरभिहितः, यथा - अनित्यः शब्दः कृतकत्वादिति । अत्र वैधर्म्य दृष्टान्तः– यदकृतकं तन्नित्यं भवति, यथा आकाशमिति, अत्र विपर्यस्तव्यतिरेकप्रदर्शनाद्विपरीतव्यतिरेकित्वम्, वैधर्म्य - प्रयोगे हि साध्याभावः साधनाभावाक्रान्तो दर्शनीयः, न चैवमत्र, साधनाभावस्य साध्याभावव्याप्ततयाभिधानादिति । व्यतिरेकाप्रदर्शनं विपरीतव्यतिरेकप्रदर्शनं च न वस्तुनो दोषः, किं तर्हि, वचनकुशलताविकलस्याभिधायकस्य । किं च येषां भवतामदो दर्शनम् - यदुत स्वार्थानुमानकाले स्वयं हेतुदर्शनमात्रात् साध्यप्रतीतेः परार्थानुमानावसरेऽपि हेतुप्रतिपादनमेव कर्तव्यम्, " विदुषां वाच्यो हेतुरेव हि केवलः " - इति वचनात्, तेषां कृतकत्वाद् इतीयता हेतूपन्यासेनैव सिसाधयिषितसाध्यसिद्धेः समस्तदृष्टान्ताभासवर्णनमपि पूर्वापरव्याहतवचन रचनाचातुर्यमाविर्भावयति । आसातां तावदेतौ, दृष्टान्तस्य साधनावयवत्वेनानभ्युपगमात् । अथेत्थमाचक्षीथाः - अन्वयव्यतिरेकापरिज्ञाने प्रतिपाद्यस्य न दृष्टान्तमन्तरेणैतौ दर्शयितुं शक्यौ, अतोऽन्वयव्यतिरेकदर्शनार्थं दृष्टान्तोऽभिधातव्यः । ततश्च तत्कार्याकारिणां तदाभासतेति चेत्, गले गृहीतस्यायमुल्लापः । तथाप्यप्रदर्शितव्यतिरेकविपरीतव्यतिरेको दृष्टान्ताभासौ न वास्तव, किं तर्हि वक्तृदोषसमुत्थौ, अतो नाभिधातुं युक्तौ तथाविधस्य विद्यमानवस्तुप्रकाशनसामर्थ्यरहितस्य निबिडजडिमावष्टब्धस्य पुंसो वादा -
30
For Personal & Private Use Only
73
5
15
20
25
www.jainelibrary.org