________________
न्यायावतारः, २५
व्यतिरेकित्वमिति । साधनाव्यतिरेकी यथा - निर्विकल्पकं प्रत्यक्षं, प्रमाणत्वादिति । अत्र वैधर्म्य दृष्टान्तः – यत् पुनः सविकल्पकं न तत् प्रमाणम्, तद्यथा - अनुमानम्, अनुमानात् प्रमाणतानिवृत्तेः साधनाव्यतिरेकित्वम् । उभयाव्यतिरेकी यथा - नित्यानित्यः शब्दः सत्त्वादिति । अत्र वैधर्म्य दृष्टान्तःयः पुनर्न नित्यानित्यः स न सन्, तद्यथा घटः घटादुभयस्याप्यव्यावृत्तेरुभयाव्यतिरेकित्वमिति । तथा संदिग्धसाध्यव्यतिरेको यथा - - असर्वज्ञा अनाप्ता वा कपिलादयः, आर्यसत्यचतुष्टयाप्रतिपादकत्वादिति । अत्र वैधर्म्य - दृष्टान्तः– यः पुनः सर्वज्ञ आप्तो वा असावार्यसत्यचतुष्टयं प्रत्यपीपदत्, तद्यथा शौद्धोदनिरिति । अयं च साध्याव्यतिरेकी वा आर्यसत्यचतुष्टयस्य 10 दुःखसमुदयमार्गनिरोधलक्षणस्य प्रमाणबाधितत्वेन तद्भाषकस्यासर्वज्ञतानाप्ततोपपत्तेः केवलं तन्निराकारकप्रमाणसामर्थ्यपर्यालोचन विकलानां संदिग्धसाध्यव्यतिरेकितया प्रतिभाति इति तथोपन्यस्तः । तथा हि- यद्यप्यार्यसत्यचतुष्टयं शौद्धोदनिः प्रतिपादितवान्, तथापि सर्वज्ञताप्तते तस्य न सिध्यतः, ताभ्यां सहार्यसत्यचतुष्टयप्रतिपादनस्यान्यथानुपपत्त्यसिद्धेः, असर्वज्ञानाप्तेनापि 15 परप्रतारणाभिप्रायप्रवृत्तनिपुणबुद्धिशठपुरुषेण तथाविधप्रतिपादनस्य कर्तुं शक्यत्वात् । तस्मात् शौद्धोदनेः सकाशादसर्वज्ञतानाप्ततालक्षणस्य साध्यस्य व्यावृत्तिः संदिग्धेति संदिग्धसाध्यव्यतिरेकित्वमिति । संदिग्धसाधनव्यतिरेको यथा - अनादेयवाक्यः कश्चिद् विवक्षितः पुरुषः रागादिमत्त्वादिति । अत्र वैधर्म्यदृष्टान्तः–यः पुनरादेयवाक्यो न स रागादिमान्, तद्यथा सुगत इति । यद्यपि तद्दर्शनानुरक्तान्तःकरणानां सुगतस्यादेयवचनता सिद्धिसौवमध्यारूढा, तथापि रागादिमत्त्वाभावस्तत्प्रतिपादकप्रमाणवैधुर्यात् संदेहगोचरचारितामनुभवति, अतः सुगताद् रागादिमत्ताव्यावृत्तिसंशयात् संदिग्धसाधनव्यतिरेकित्वमिति । संदिग्धसाध्यसाधनव्यतिरेको यथा- न वीतरागाः कपिलादयः, करुणास्पदेष्वप्यकरुणापरीतचित्ततयादत्तनिजकमांसशकलत्वादिति 25 वैधर्म्यदृष्टान्तः– ये पुनर्वीतरागास्ते करुणापरीतचित्ततया दत्तनिजमांसशकलाः, तद्यथा बोधिसत्त्वा इति । अत्र साध्यसाधनधर्मयोर्बोधिसत्त्वेभ्यो व्यावृत्तिः संदिग्धा, तत्प्रतिपादितप्रमाणवैकल्याद् न ज्ञायते कि ते रागादिमन्तः उत वीतरागाः, तथानुकम्प्येषु किं स्वपिशितखण्डानि दत्तवन्तो नेति वा, अतः संदिग्धसाध्यसाधनव्यतिरेकित्वमिति । परैरपरेऽपि दृष्टान्ताभासारुनयोऽ 30 विमृश्यभाषितया दर्शिताः । तद्यथा - अव्यतिरेकः, अप्रदर्शितव्यतिरेकः,
1 अत्र
-
72
5
20
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org