________________
न्यायावतारः, २५
साधर्म्यप्रयोगे हि साधनं साध्याक्रान्तमुपदर्शनीयम्, इह तु विपर्यासदर्शनाद्विपरीतता । तदेतद् भवद्भिः कस्मान्नोक्तमिति । अत्रोच्यते, परेषां न सुपर्यालोचितमेतद् दृष्टान्ताभासत्रयाभिधानमिति ज्ञापनार्थम् । तथा हिन तावदनन्वयो दृष्टान्ताभासो भवितुमर्हति । यदि हि दृष्टान्तबलेन व्याप्तिः साध्यसाधनयोः प्रतिपाद्येत ततः स्यादनन्वयो दृष्टान्ताभासः, स्वकार्याकरणात्, यदा तु पूर्वप्रवृत्तसंबन्धग्राहिप्रमाणगोचरस्मरणसंपादनार्थं दृष्टान्तोदाहृतिरिति स्थितम्, तदानन्वयलक्षणो न दृष्टान्तस्य दोषः, किं तर्हि हेतोरेव प्रतिबन्धस्याद्यापि प्रमाणेनाप्रतिष्ठितत्वात्, प्रतिबन्धाभावे चान्वयासिद्धेः । न च हेतुदोषोऽपि दृष्टान्ते वाच्यः, अतिप्रसङ्गादिति । तथा अप्रदर्शितान्वयविपरीतान्वयावपि न दृष्टान्ताभासतां स्वीकुरुतः, अन्वयाप्रदर्शनस्य विपर्यस्तान्वयप्रदर्शनस्य च वक्तृदोषत्वात्, तद्दोषद्वारेणापि दृष्टान्ताभासप्रतिपादने तदियत्ता विशीर्येत, वक्तृदोषाणामानन्त्यात् । वक्तृदोषत्वेऽपि परार्थानुमाने तत्कौशलमपेक्षते इति । एवं चोपन्यासे न बुभुत्सितार्थसाधकौ अतो दृष्टान्ताभासावेताविति चेत्, एवं तर्हि करणापाटवादयोऽपि दृष्टान्ताभासा वाच्याः । तथा हि- करणपाटवव्यतिरेकेणापि न 15 परप्रत्यायनं समस्ति, विस्पष्टवर्णाग्रहणे व्यक्ततया तदर्थावगमाभावादित्यास्तां तावत् ॥ २४ ॥
तदेवं साधर्म्येण दृष्टान्ताभासान् प्रतिपाद्य वैधर्म्येणाह - वैधर्म्येणात्र दृष्टान्तदोषा न्यायविदीरिताः । साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ।। २५ ।।
साध्याभावः साधनाभावव्याप्तौ दर्शयितुमभिप्रेतो यस्मिन् तद् वैधर्म्यम्, तेनात्र दृष्टान्तदोषा न्यायविदीरिता इति दत्तार्थम् । साध्यसाधनयुग्मानां गम्यगमको भयानामनिवृत्तेरनिवर्तनात् चशब्दस्य व्यवहितप्रयोगत्वात् संशयाच्च, निवृत्तिसंदेहाच्चेत्यर्थः । तदनेन षड् दृष्टान्ताभासाः सूचिताः । तद्यथा - १, साध्याव्यतिरेकी; २, साधनाव्यतिरेकी; ३, साध्यसाधनाव्यतिरेकी; तथा ४, संदिग्धसाध्यव्यतिरेकः ५. संदिग्धसाधनव्यतिरेकः ; ६, संदिग्धसाध्यसाधनव्यतिरेकश्चेति । तत्र साध्याव्यतिरेकी यथा -भ्रान्तमनुमानं, प्रमाणत्वाद् इति । अत्र वैधर्म्यदृष्टान्तः - यत् पुनर्भ्रान्तं न भवति न तत् प्रमाणम्, तद्यथा - स्वप्नज्ञानमिति, स्वप्नज्ञानाद् भ्रान्ततानिवृत्तेः साध्या
Jain Education International
-
71
For Personal & Private Use Only
5
10
20
25
www.jainelibrary.org