________________
10
न्यायावतारः, २४
साधनं साध्याक्रान्तमुपदर्शयितुमभिप्रेतं यस्मिस्तत् साधयं तेन, अत्र व्यतिकरे, दूष्यन्त इति दोषाः, दृष्टान्ता एव दोषाः दृष्टान्तदोषाः, दृष्टान्ताभासा इत्यर्थः, न्यायविदीरिता विद्वद्भिर्गदिताः । साध्यं गम्यम्, आदिशब्दात् साधनोभयपरिग्रहः, तद्विकलास्तच्छून्याः, आदिशब्दात् संदिग्धसाध्यसाधनोभयधर्मा गृह्यन्ते । किंभूता एते इत्याह- अपगतं लक्षणं येभ्यस्ते तथा च ते हेतवश्च तेभ्य उत्थानं येषां तेऽपलक्षणहेतूत्थाः । इदं च प्रायिकं विशेषणम्, सम्यग्हेतावपि वक्तृदोषवशात् दृष्टान्ताभासतोपपत्तेः । यथानित्यानित्यः शब्दः, श्रावणत्वात्, घटवदित्यादि । तत्र साध्यविकलो यथा
भ्रान्तमनुमानम्, प्रमाणत्वात्, प्रत्यक्षवत् । प्रत्यक्षस्य भ्रान्तताविकलत्वात्, 10 तद्भ्रान्तत्वे सकलव्यवहारोच्छेदप्रसङ्गात्, तदुच्छेदे च प्रमाणप्रमेयाभावात्
न किंचित् केनचित् साध्यत इति भ्रान्तवादिनो मूकतामापद्येत । साधनविकलो यथा-जाग्रत्संवेदनं भ्रान्तम्, प्रमाणत्वात्, स्वप्नसंवेदनवत् । स्वप्नसंवेदनस्य प्रमाणतावैकल्यात् तत्प्रत्यनीकजाग्रत्प्रत्ययोपनिपातबाधित
त्वादिति । उभयविकलो यथा-नास्ति सर्वज्ञः, प्रत्यक्षाद्यनुपलब्धत्वात्, 15 घटवत् । घटस्य सत्त्वात् प्रत्यक्षादिभिरुपलब्धत्वाच्च । संदिग्धसाध्यधर्मो
यथा-वीतरागोऽयम्, मरणधर्मत्वात्, रथ्यापुरुषवत् । रथ्यापुरुषे वीतरागत्वस्य संदिग्धत्वात्, विशिष्टचेतोधर्माणां विशिष्टव्याहारादिलिङ्गगम्यत्वात् रथ्यापुरुषे तन्निर्णयस्याप्यभावादिति । संदिग्धसाधनधर्मो यथा-मरण
धर्मायं पुरुषः, रागादिमत्त्वात्, रथ्यापुरुषवत् । रथ्यापुरुषे रागादिमत्त्वस्य 20 संदिग्धत्वात्, वीतरागस्यापि तथा संभवादिति । संदिग्धोभयधर्मो यथा
असर्वज्ञोऽयम्, रागादिमत्त्वात्, रथ्यापुरुषवत् । रथ्यापुरुषे प्रदर्शितन्यायेनोभयस्यापि संदिग्धत्वादिति । ननु च परैरन्यदपि दृष्टान्ताभासत्रयमुक्तम्, तद्यथा-अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्चेति । तत्रानन्वयो यथा---
रागादिमान विवक्षितः पुरुषः, वक्तृत्वाद्, इष्टपुरुषवदिति । यद्यपि किलेष्ट25 पुरुषे रागादिमत्त्वं वक्तृत्वं च साध्यसाधनधमौं दृष्टौ, तथापि यो यो वक्ता
स स रागादिमानिति व्याप्त्यसिद्धरनन्वयोऽयं दृष्टान्तः । तथा अप्रशितान्वयो यथा-अनित्यः शब्दः, कृतकत्वात् घटवदिति । अत्र यद्यपि वास्तवोऽन्वयोऽस्ति, तथापि वादिना वचनेन न प्रकाशित इत्यप्रदर्शितान्वयो
दृष्टान्तः । विपरीतान्वयो यथा-अनित्यः शब्दः, कृतकत्वादिति हेतुमभि30 धाय यदनित्यं तत् कृतकं घटवदिति विपरीतव्याप्तिदर्शनात् विपरीतान्वयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org