________________
न्यायावतारः, २४
-
10
शक्यत्वात् । तथा हि- अनित्यवादी नित्यवादिनं प्रति प्रमाणयति – सर्वं क्षणिकम्, सत्त्वात्, अक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्, अर्थक्रियाकारित्वस्य च भावलक्षणत्वात्, ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेदिति क्षणिकत्वसिद्धिः । न हि नित्योऽर्थोऽर्थक्रियायां क्रमेण प्रवर्तितुमुत्सहते, पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां प्रवृत्तेः, अन्यथा 5 पूर्वार्थक्रियाकरणाविरामप्रसङ्गात्, तत्स्वभावप्रच्यवे च नित्यता अपयाति, अतादवस्थ्यस्यानित्यलक्षणत्वात् । नित्योऽपि क्रमवर्तिनं सहकारिकारणमर्थमुदीक्षमाणस्तावदासीत्, पश्चात् तमासाद्य क्रमेण कार्यं कुर्यादिति चेत्, न, सहकारिकारणस्य नित्येऽकिंचित्करत्वात्, अकिंचित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् । नापि यौगपद्येन नित्योऽर्थोऽर्थक्रियां कुरुते, अध्यक्षविरोधात् । न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते, करोतु वा, तथाप्याद्यक्षणे एव सकलक्रियापरिसमाप्तेद्वितीयादिक्षणेष्वकुर्वाणस्यानित्यता बलादाढौकते, करणाकरणयोरेकस्मिन् विरुद्धत्वादिति । नित्यवादी पुनरेवं प्रमाणयति – सर्वं नित्यम्, सत्त्वात्, क्षणिके सदसत्कालयोरर्थक्रियाविरोधात्, तल्लक्षणं सत्त्वं नावस्थां बध्नातीति ततो निवर्तमानमनन्यशरणतया नित्यत्वं साधयति । तथा हि- क्षणिकोऽर्थः सद् वा कार्यं कुर्यात्, असद् वा, गत्यन्तराभावात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापारायोगात्, सकलभावानां परस्परं कार्यकारणभावप्राप्त्यतिप्रसङ्गाच्च । नापि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्यकरणशक्तिविकलत्वात्, अन्यथा शशविषाणादयोsपि कार्यकरणायोत्सहेरन्, विशेषाभावादिति । तदेवमेकान्तद्वयेऽपि ये ये हेतवस्ते ते युक्तेः समानतया विरुद्धं न व्यभिचरन्ति, अविचारितरमणीयतया मुग्धजनध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिकाः, सर्ववस्तुधर्माणां वस्तुतोऽनेकान्तप्रतिबद्धत्वादिति । तस्मादमी सर्व एव हेतवः सन्तोऽनेकान्तमन्तरेण नोपपद्यन्ते इति तमेव प्रतिपादयितुमीशते । विमूढबुद्धिभिः पुनः विपक्षसाधनार्थमुपन्यस्यमाना विवक्षयासिद्धविरुद्धानैकान्तिकतामाबिभ्रतीति स्थितम् ॥ २३ ॥
तदेवं हेत्वाभासान् प्रतिपाद्य दृष्टान्तलक्षणव्युदस्तान् दृष्टान्ताभासा
नाह
साधर्म्येणात्र दृष्टान्तदोषा न्यायविदीरिताः । अपलक्षणहेतूत्थाः साध्यादिविकलादयः ।। २४ ॥
Jain Education International
69
For Personal & Private Use Only
15
20
25
30
www.jainelibrary.org