________________
न्यायावतारः, २३
व्यतिकरे अनैकान्तिकसंज्ञो ज्ञातव्य इति । तत्र प्रतिप्राणिप्रसिद्धप्रमाणप्रतिष्ठितानेकान्तविरुद्धबुद्धिभिः कणभक्षाक्षपादबुद्धादिशिष्यकैरुपन्यस्यमानाः सर्व एव हेतवः, तद्यथा-एकान्तेन अनित्यः शब्दो नित्यो वा, सत्त्वात, उत्पत्तिमत्त्वात्, कृतकत्वात्, प्रत्यभिज्ञायमानत्वात् – इत्यादयो विवक्षयासिद्धविरुद्धानकान्तिकतां स्वीकुर्वन्ति इत्यवगन्तव्यम् । तथा हि-अनित्यकान्ते तावदसिद्धाः सर्व एव हेतवः, चाक्षुषत्ववत् तेषां ध्वनावविद्यमानत्वात्, असदादिव्यवच्छेदेनालीकसंवृतिविकल्पितत्वात्, पारमार्थिकत्वे त्वेकस्यानेकरूपापत्त्यानेकान्तवादापत्तः, कल्पनारचितसत्ताकानां च सर्वशक्तिविरहरूपतया निःस्वभाव
त्वात्, तथापि तेषां साधनत्वे साध्यमपि निःस्वभावमिति खरविषाणं 10 शशविषाणस्य साधनमापद्यत इति शोभनः साध्यसाधनव्यवहारः । सर्व
एवायमनुमानानुमेयव्यवहारो बुद्धचारूढेन धर्मधर्मिन्यायेन न बहिः सदसत्त्वमपेक्षते, तेनायमदोष इति चेत्, एवं तर्हि चाक्षुषत्वमपि शब्दे बुद्धयाध्यारोप्य हेतुतयोच्यमानं नासिद्धतयोद्भावनीयम्, विशेषाभावात् । अचाक्षुषत्वव्यव
च्छेदेन चाक्षुषत्वं बुद्धयाध्यारोपयितुं पार्यते, न यथाकथंचित्, न चासौ 15 शब्देऽस्ति, अचक्षुर्णाह्यत्वात् तस्य, तेनायमदोष इति चेत्, कोऽयमचाक्षुषत्वव्य
वच्छेदो नाम, व्यवच्छेदमानं नीरूपं व्यवच्छिन्नं वा स्वलक्षणं व्यवच्छेदिका वा बुद्धिः स्वांशमग्नापि बहिर्वस्तुग्रहणरूपतया प्लवमाना, नापरो वस्तुधर्मो यत्र भेदाभेदविकल्पद्वारेण दूषणं दित्सुर्भवानिति चेत्, तर्हि स शब्दे नास्ति
इति केषा भाषा, एवं हि नभःपुण्डरीकं तत्र नास्तीति सत्त्वादिकमपि कल्प20 यितुं न शक्यमिति प्रसज्येत । किं च । ते साधनधर्मा धर्मिणि भवन्तोऽपि
न भवदर्शने प्रतीतिमारोहन्ति, प्रत्यक्षस्य विकल्पविकलतया धर्मनिर्णयशून्यत्वात्, तदुत्तरकालभाविन्या वासनाबोधजन्याया विकल्पबुद्धः स्वांशग्रहणपर्यवसितशरीरत्वेन बहिः स्वलक्षणे प्रवेशाभावात्, ततश्चाप्रतीतत्वात् सर्वस्यासिद्धत्वम् । नित्यकान्तेऽपि धर्मिणोऽत्यन्तव्यतिरिक्तानामपारमार्थिकानां वा स्वसाधनधर्माणां प्रमाणेनाप्रतीतत्वादसिद्धता द्रष्टव्या, धर्मिणोऽविनिलठितरूपाणां पारमार्थिकानां सकलधर्माणां प्रत्यक्षादिप्रमाणप्रसिद्धत्वेन निहोतुमशक्यत्वादिति । तथा विरुद्धतापि पक्षद्वयेऽपि सर्वसाधनधर्माणामुन्नेया, अनेकान्तप्रतिबद्धस्वभावत्वेन तत्साधनप्रवणत्वात् । एतच्चोत्तरे वक्ष्यामः ।
एवं पक्षद्वयेऽपि निर्दिश्यमानाः सर्व एव हेतवोऽनकान्तिकतामात्मसात्कुर्वन्ति, 30 परस्परविरुद्धाव्यभिचरितत्वात्, समानयुक्त्युपन्यासेन विपक्षेऽपि दर्शयितुं
25
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org