________________
न्यायावतारः, २१, २२, २३
प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽक्षलिङ्गतः । लोकस्ववचनाभ्यां च बाधितोऽनेकधा मतः॥२१॥
पक्षस्थानोपन्यस्तत्वात् तत्कार्याकरणत्वाच्च पक्षवदाभासत इति पक्षाभासः । असावनेकधा अनेकप्रकारो मत इति संबन्धः । कथमित्याहप्रतिपाद्यस्य प्रतिवादिनो यः कश्चित् सिद्धः प्रतीतावारूढ एव स पक्षाभासः, 5 साध्यस्यव पक्षत्वात्, सिद्धस्य साधनानहत्वात्, अतिप्रसक्तेः । तथा अक्षलिङ्गतोऽध्यक्षहेतुभ्यां लोकस्ववचनाभ्यां च बाधितस्तिरस्कृतो यः स पक्षाभासः । तत्र प्रतिपाद्यसिद्धो यथा-पौद्गलिको घटः, सौगतं वा प्रति सर्व क्षणिकमित्यादि । प्रत्यक्षबाधितो यथा-निरंशानि स्वलक्षणानि, परस्परविविक्तौ वा सामान्यविशेषाविति । अनुमानबाधितो यथा-नास्ति 10 सर्वज्ञ इति । लोकबाधितो यथा--गम्या माता इति । स्ववचनबाधितो यथा-न सन्ति सर्वे भावा इति ॥ २१ ॥
सांप्रतं हेतुलक्षणं स्मारयन् तदपास्तान हेत्वाभासानाहअन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् । तदप्रतीतिसंदेहविपर्यासस्तेदाभता ॥ २२ ॥ 15
हेतोर्लक्षणमसाधारणधर्मरूपं यदीरितं गमितम्, अनेकार्थत्वाद् धातोः प्रतिपादितं, स्वार्थानुमानप्रस्तावे यदुतान्यथानुपपन्नत्वमिति, तस्याप्रतीतिरनध्यवसायः, संदेहो दोलायमानता, विपर्यासो वैपरीत्यनिर्णयः, अप्रतीतिश्च संदेहश्च विपर्यासश्चेति द्वन्द्वः, पश्चात् तदा सह तत्पुरुषः, तैस्तदप्रतीतिसंदेहविपर्यासः, तदाभता आभानमाभा तस्येव सम्यगहेतोरिवाभा अस्येति तदा- 20 भस्तद्भावः तत्ता, हेत्वाभासता भवतीत्यर्थः ॥२२॥
अधुना येन लक्षणेन यन्नामा हेत्वाभासो भवति तद्दर्शयति -
असिद्धस्त्वप्रतीतो यो योऽन्यथैवोपपद्यते । विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥२३॥
यः कश्चिदप्रतीतः प्रतीत्या अगोचरीकृतोऽनिश्चितः सोऽसिद्धनामा 25 हेत्वाभासः । तुशब्दः त्रयस्यापि भेदोद्द्योतकः । यस्त्वन्यथैव साध्यं विनैव, विपक्ष एवेति यावत्, उपपद्यते संभवति स विरुद्धाभिधानः । यः पुनरन्यथाऽपि साध्यविपर्ययेणापि युक्तो घटमानकः, अपिशब्दात् साध्येनापि, सोऽत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org