________________
66
न्यायावतारः, २०
10
विसदृशो धर्मोऽस्येति विधर्मा, तद्भावो वैधर्म्यम्, तेन वैधhण दृष्टान्तः । कीदृश इत्याह – साध्ये गम्ये निवर्तमाने असंभवति, तुशब्दोऽवधारणार्थो भिन्नक्रमः, स च साधनस्यासंभव एवेत्यत्र द्रष्टव्यः । ख्याप्यते प्रतिपाद्यते यत्र क्वचित् दृष्टान्ते स वैधhण भवति, इतिशब्देन संबन्धस्मरणादिति ॥ १९॥
इदमत्रापि संबध्नाति - अस्यापि स्मर्यमाणे संबन्धे प्रयोगायोगादिति किमर्थं विस्मृतसंबन्धे एव प्रतिवादिनि दृष्टान्तः प्रयुज्यते नान्यदा, इति परवचनावकाशमाशङ्क्याह
अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्बहिरुदाहृतिः । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ॥२०॥
अन्यदा हि स्मर्यमाणे वा संबन्धे प्रयुज्यत, अगृहीते वा । यद्याद्यः पक्षः सोऽयुक्तः, यदा सर्वत्र साध्याविनाभाविनं हेतुं स्मरति प्रतिपाद्यः, तदा पक्षेऽपि तमवबुध्य कथं साध्यं न प्रतिपद्यत । ततश्चान्तः पक्षमध्ये व्याप्तिः
साधनस्य साध्याक्रान्तत्वमन्ताप्तिः, तयैव साध्यस्य गम्यस्य सिद्धेः प्रतीतेः 15 बहिर्विवक्षितधर्मिणोऽन्यत्र दृष्टान्तधर्मिण्युदाहृतिः व्याप्तिदर्शनरूपा व्यर्था
निष्प्रयोजना, तत्प्रत्याय्यार्थाभावादिति । द्वितीयपक्षस्यापि निर्दोषतां निरस्यन्नाह - तदसद्भावेऽप्येवं संबन्धाग्रहणादन्तर्व्याप्त्यभावेऽप्येवमिति व्यर्थव बहिरुदाहृतिः, न हि सहदर्शनात् क्वचित् सर्वत्र तद्रूपता सिध्यति,
व्यभिचारदर्शनात् । तस्मादगृहीतसंबन्धे प्रतिपाद्ये प्रमाणेन प्रतिबन्धः साध्यः, 20 तत्सिद्धौ तत एव साध्यसिद्धरकिंचित्करी दृष्टान्तोदाहृतिरिति न्यायविद्वांसो
विदुरवबुध्यन्त इति । इह च प्रकरणे शेषावयवानामुपनयनिगमनशुद्धिपञ्चकलक्षणानां संक्षिप्तरुचिसत्त्वानुग्रहपरत्वादस्य यद्यपि साक्षाल्लक्षणं नोक्तम्, तथाप्यत एव प्रतिपादितावयवत्रयाद् बुद्धिमद्भिरुन्नेयम् । यतोऽवयवापेक्षया जघन्यमध्यमोत्कृष्टास्तिस्रः कथा भवन्ति । तत्र हेतुप्रतिपादनमात्रं जघन्या । द्वयाद्यवयवनिवेदनं मध्यमा । संपूर्णदशावयवकथनमुत्कृष्टा । तत्रेह मध्यमायाः साक्षात् कथनेन जघन्योत्कृष्ट अर्थतः सूचयति, तत्सद्भावस्य प्रमाणसिद्धत्वादिति ॥ २०॥
___ एवं पक्षादिलक्षणं प्रतिपाद्येदानी हेयज्ञाने सत्युपादेयं विविक्ततरं वेद्यते
इति तद्वयुदस्ताः पक्षहेतुदृष्टान्ताभासा वक्तव्याः । तत्र तावत् पक्षलक्षणव्यु· 30 दस्तान् पक्षाभासानाह
25
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org