________________
न्यायावतारः, १९
दृष्टान्तः, समानो धर्मोऽस्येति सधर्मा तद्भावः साधयं तेन साधयेण । स किंविधो भवतीत्याह–साध्यं जिज्ञासितार्थात्मकम्, साधनं तद्गमको हेतुः, तयोः साध्यसाधनयोाप्तिः, इदमनेन विना न भवति इत्येवंरूपा, यत्र क्वचिनिश्चिीयतेतराम् अतिशयेन निर्णीयते स साधर्म्यदृष्टान्तः । यथा-अग्निरत्र, धूमस्य तथैवोपपत्तेः, महानसादिवद् इति । अयं चाविस्मृतप्रतिबन्धे प्रतिवा- 5 दिनि न प्रयोक्तव्य इत्याह-संबन्धस्मरणात् इति । यब्लोपे पञ्चमी, प्राग्गृहीतविस्मृतसंबन्धस्मरणमधिकृत्य मतोऽभिप्रेतोऽयं नीतिविदाम्, नान्यथा । यदा हि प्रतिपाद्योऽद्यापि संबन्धं साध्याविनाभावित्वलक्षणं नावबुध्यते; तदा प्रमाणेन संबन्धो ग्राहणीयः, न दृष्टान्तमात्रेण, न हि सहदर्शनादेव क्वचित्सर्वत्रेदममुना विना न भवतीति सिध्यति, अतिप्रसङ्गात् । गृहीते च 10 प्रतिबन्धे स्मर्यमाणे केवलं हेतुर्दर्शनीयः, तावतैव बुभुत्सितार्थसिद्धेदृष्टान्तो न वाच्यः, वैयर्थ्यात् । यदा तु गृहीतोऽपि विस्मृतः कथंचित् संबन्धः, तदा तत्स्मरणार्थ दृष्टान्तः कथ्यते । ननु च कथं त्रिकालसमस्तदेशव्यापिसंबन्धावगतिः । न तावनिर्णयात्मकमपि प्रत्यक्ष देशकालान्तरसंचरिष्णुनोः साध्यसाधनयोः संबन्धं निरीक्षितुं क्षमते, संनिहितेऽर्थे विशदाध्यवसायेन प्रवृत्तेः । 15 नापि शब्दात्तनिर्णयः, तस्य परोपदेशरूपतया स्वार्थानुमानाभावप्रसङ्गात्, तत्र परोपदेशाभावात्, तदभावे संबन्धासिद्धः, तदसिद्धावनुमानानुत्थानादिति । अनुमानात्संबन्धग्रहणे निरवधिरनवस्थानुषज्येत, संबन्धग्राहिणोऽप्यनुमानस्य पुनः संबन्धान्तरग्रहणसव्यपेक्षत्वादिति । अत्रोच्यते -प्रत्यक्षानुमाने द्वे एव प्रमाणे इति येषां मिथ्याभिनिवेशः, तेषामेष दोषो नास्माकम्, अन्वयव्य- 20 तिरेकग्राहिप्रत्यक्षानुपलम्भोत्तरकालभाविनोऽव्यभिचरितत्रिकालव्यापिगोचरस्य मतिनिबन्धनस्योहसंज्ञितस्य प्रमाणान्तरस्य संबन्धग्राहितयेष्टत्वात्, तदनिष्टौ दृष्टव्यवहारविलोपप्रसङ्गात्, तद्विलोपे च विचारानर्थक्यप्राप्तेरिति । अत्र प्रकरणे पुनरनुमानात् पार्थक्येनोहो न दर्शितः, संक्षिप्तरुचिसत्त्वानुग्रहप्रवृत्तत्वादस्य, शाब्दं तु पृथक् समर्थितम्; तस्यात्रैव परार्थानुमानोपयोगित्वा- 25 दित्यास्तां तावत् ॥ १८॥
इदानीं वैधHदृष्टान्तमुपदर्शयन्नाह - साध्ये निवर्तमाने तु साधनस्याप्यसंभवः । ख्याप्यते यत्र दृष्टान्ते वैधयेणेति स स्मृतः ॥ १९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org