________________
64
न्यायावतारः, १७-१८
तौ यथा विरुद्धारेकितौ भवतः, तथा वादिनोऽपीत्यर्थः । तस्मादविज्ञाततदर्थे प्रतिवादिनि वादिधानुष्केण पक्षलक्ष्यं निर्देश्यैव हेतुशरः प्रयोक्तव्य इति स्थितम् ॥ १६ ॥
__सांप्रतं हेतोर्लक्षणावसरः, तच्च स्वार्थानुमानवद् निर्विशेषं द्रष्टव्यम्, 5 प्रयोगस्तु तत्र न दर्शितः, स्वार्थानुमानस्य बोधरूपत्वात्, इह तु दर्शनीयः, परार्थानुमानस्य वचनरूपत्वात्, अतस्तं दर्शयति -
हेतोस्तथोपपत्त्या वा स्यात्प्रयोगोऽन्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥ १७ ॥
स्वार्थानुमानप्रस्तावे हि परप्रणीतलक्षणान्तरव्यपोहेन साध्यव्यतिरेकात् 10 सामस्त्येन हेतोया॑वृत्तिरेवैकं लक्षणमिति निर्णीतम्, परार्थानुमानेऽपि तदेव
प्रकाशनीयम्, वचनरचना तु क्वचित् कथंचित् प्रवर्तत इत्यभिप्रायवांस्तद्द्वविध्यमाह-हेतोद्विविधः प्रयोगः स्यादिति संबन्धः । कथमित्याह - तथैव साध्यसद्भावे एवोपपत्तिर्विद्यमानता, तया तथोपपत्त्या, यथा -- अग्निरत्र,
धूमस्य तथैवोपपत्तेरिति । अन्यथापि वा इत्यनेन अवयवे समुदायोपचारा15 दन्यथानुपपत्तिं लक्षयति । अन्यथा साध्यव्यतिरेके अनुपपत्तिरविद्यमानतैव
तया वा अन्यथानुपपत्त्या हेतोः प्रयोगः स्यात्, यथा-अग्निरत्र, धूमस्यान्यथानुपपत्तेरिति । एते च द्वे अप्येकस्मिन् साध्ये प्रयोक्तव्ये इति यो मन्येत, तच्छिक्षणार्थमाह- अन्यतरेणापि तथोपपत्तिप्रयोगेण अन्यथानुपपत्तिप्रयोगेण
वा साध्यस्य साध्यप्रतिपिपादयिषितार्थस्य सिद्धिनिष्पत्तिः प्रतिपाद्यप्रतीतावा20 रोहणं भवेद्, इति यस्मात्, तस्मान्न द्वे अपि प्रयोक्तव्ये, प्रयोगद्वयेऽपि
यस्माद् वचनरचना भिद्यते नार्थः, प्रयोगस्य च साध्यसाधनफलम्, तच्चेदेकेनैव सिध्यति, द्वितीयप्रयोगः केवलं वक्तुरकौशलमाचक्षीत, नैरर्थक्यादित्यभिप्रायः ॥ १७ ॥
अधुना दृष्टान्तलक्षणावसरः । स च द्वेधा साधर्म्यण वैधाण च । 25 तत्र साधर्म्यदृष्टान्तमधिकृत्याह
साध्यसाधनयोर्व्याप्तिर्यत्र निश्चीयतेतराम् । साधर्येण स दृष्टान्तः संबन्धस्मरणान्मतः ॥ १८ ॥
दृष्टयोरवलोकितयोः सामर्थ्यात् साध्यसाधनयोः अन्तःपरिनिष्ठितिः अन्वयाद् व्यतिरेकाद्वा साध्यसाधनभावव्यवस्थितिनिबन्धना यस्मिन्निति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org