________________
न्यायावतारः, १५-१६
63
अस्ति सर्वज्ञः इत्यादि वा; अयं च केवलमेष्टव्यो न पुनः परार्थानुमानकाले वचनेनाभिधातव्यः इति यो मन्येत तं प्रत्याह-तस्य पक्षस्य प्रयोगोऽभिधानमत्र परार्थानुमानप्रस्तावे कर्तव्यो विधेयः । कुत इत्याह-हेतोः प्रानिरूपितस्य गोचरदीपक इति, निमित्तकारणहेतुषु सर्वासां प्रायो दर्शनम् इति वचनात्, भावप्रधानत्वाच्च निर्देशस्य, विषयसंदर्शकत्वादित्यर्थः । 5 अयमत्राभिप्रायः- न हि सर्वत्र प्रतिवादिनः प्रक्रमादेव निर्णीतपक्षस्य कूर्चशोभापुरःसरं हेतुरुपन्यस्यते, अपि तु क्वचित् कथंचित् ॥ १४ ॥
ततो यदाद्यापि प्रतिपाद्यः पक्षार्थ न जानीते, तदा अकाण्डे एव हेतावुच्यमाने विषयव्यामोहाद् भ्रान्तिलक्षणो दोषः स्यादित्याहअन्यथा वाद्यभिप्रेतहेतुगोचरमोहिनः ।
10 प्रत्याय्यस्य भवेद्धेतुर्विरुद्धारेकितो यथा ॥१५॥
अन्यथा इति उक्तविपरीताश्रयणे पक्षप्रयोगाकरणे इत्यर्थः । वादिनो हेतूपन्यासकर्तुरभिप्रेतोऽभिमतः स चासौ हेतुगोचरश्च वाद्यभिप्रेतहेतुगोचरः, तत्र मुह्यति दोलायते तच्छीलश्च यः, तस्य प्रत्याय्यस्य प्रतिवादिनो हेतुः विरुद्धारेकितो भवेद् विरोधशङ्काकलङ्कितः स्यादित्यर्थः । ततश्च सम्यग्- 15 हेतावपि विपक्षे एवायं वर्तते इति व्यामोहाद् विरुद्धदूषणमभिदधीत, पक्षोपन्यासात्तु निर्णीतहेतुगोचरस्य नैष दोषः स्यादित्यभिप्रायः । अमुमेवार्थं स्पष्टदृष्टान्तेनाह यथा इति तदुपन्यासार्थः ॥ १५ ॥
धानुष्कगुणसंप्रेक्षिजनस्य परिविध्यतः । धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ ॥ १६ ॥ 20
यथा लक्ष्यनिर्देशं विना धानुष्कस्येषु प्रक्षिपतो यौ गुणदोषौ तौ तद्दर्शिजनस्य विपर्यस्तावपि प्रतिभातः, गुणोऽपि दोषतया दोषोऽपि वा गुणतया, तथा पक्षनिर्देशं विना हेतुमपन्यस्यतो वादिनो यौ स्वाभिप्रेतसाध्यसाधनसमर्थत्वासमर्थत्वलक्षणौ गुणदोषौ तौ प्राश्निकप्रतिवाद्यादीनां विपरीतावपि प्रतिभात इति भावार्थः । अक्षरार्थस्तु धनुषा चरति 25 धानुष्कस्तस्य गुणो लक्ष्यवेधप्रावीण्यलक्षणस्तत्र प्रेक्षकाणां कुतूहलमिति तस्यैवोपादानम्, अन्यथा दोषोऽपि द्रष्टव्यः, तत्संप्रेक्षिजनस्य तत्संप्रेक्षणशीललोकस्य परिविध्यतो यथाकथंचिद् बाणं मुञ्चत इत्यर्थः, धानुष्कस्य विना लक्ष्यनिर्देशेन चापधरस्य वेध्यनिष्टङ्कनमृते यौ गुणेतरौ गुणदोषौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org