________________
न्यायावतारः, १४
परार्थमनुमानमुक्तमित्यादि यदुक्तं तदयुक्तम्, केवलं तदर्थ न जानीषे, निश्चयापेक्षयैव वतिना तुल्यताभिधानात्, न पुनः सर्वसामान्यमभिप्रेतम्, अन्यथा ध्वनिमनुच्चारयन् स्वार्थानुमाने साध्यमवबुध्यते इति तदनुच्चारणेन परनिश्चयोत्पादनं प्रसज्येत, न चैतदस्ति, शब्दानुच्चारणे परप्रतिपादनासंभवात्, तदर्थं शब्दाङ्गीकरणे येन विना परप्रतिपादनासंभवः तत्तदुररीकर्तव्यम्, समानन्यायात्, न च पक्षादिविरहे प्रतिपाद्यविशेषः प्रतिपादयितुं शक्यः हेतुगोचरादितत्साध्यार्थप्रतीतिविकलतया तस्य साकाङ्क्षत्वात्, तथा च बुभुत्सितार्थबोधाभावादप्रत्यायित एव तिष्ठेत्, अतस्तद्वोधनार्थ पक्षादयो
दर्शनीयाः, इति तेऽपि साधनांशाः स्युः । यच्चोक्तम् – अन्वयव्यतिरेकानु10 करणाभावान्न साधनम्, हेतुमात्रादपि साध्यसिद्धेः, तदयुक्तम्, अविप्रतारकता
निश्चितपुरुषवचनमात्रादपि अग्निरत्र इत्यादिरूपात् क्वचित्प्रमेयोऽर्थः सिध्यतीति हेतोरप्यसाधनताप्रसङ्गात्, तद्विरहेणापि साध्यसिद्धेः, युक्तं चैतत्, अविप्रतारकवचनस्य प्रागेव प्रामाण्यप्रसाधनात् । यच्चोक्तम् – यद्यमीषां सामथ्यं स्यात्, तदा पक्षमात्रादेव साध्यप्रतीतेहेंतोययं स्यादिति, तदयुक्ततरम्, भवत्पक्षेऽपि समानत्वात्, तत्रापि समर्थहेतूपन्यासादेव साध्यावगतेः, अन्यथा समर्थतायोगात् । पश्चात्तस्यैव प्रमाणेन समर्थनं सर्वत्र गृहीतव्याप्तिकस्य च पुनः पक्षर्मिण्युपसंहरणमनर्थकतां प्राप्नुवत् केन निवार्येत । तदभावे हेतोः सामर्थ्य नावगम्यते तेन सार्थकमिति चेत्, पक्षादीनपि विरहय्य
प्रतिपाद्यविशेषः प्रतिपादयितुं न पार्यते इति तेषामपि सार्थकता न दुरुपपादेति 20 मुच्यतामाग्रहः । तस्माद्धेतुवत् पक्षादयोऽपि साधनम, हेतोरपि क्वचित्
प्रतिपाद्य तदपेक्षतया तनिरपेक्षतासिद्धेरिति, तदिदं सकलमाकलय्योक्तं तत्पक्षादिवचनात्मकमिति ॥ १३ ॥
तदेवमर्थतः पक्षादीन् प्रस्तुत्य तावत् पक्षलक्षणमाह - साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः । तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपकः ॥ १४ ॥
पच्यत इति पक्षः, व्यक्तीक्रियते इति भावः । किंभूत इत्याहसाध्यस्य अनुमेयस्य अभ्युपगमोऽङ्गीकरणम्, प्राश्निकादीनां पुरतः प्रतिज्ञास्वीकार इत्यर्थः । किमभ्युपगममात्रम् । नेत्याह-प्रत्यक्षाद्यनिराकृतः इति ।
प्रत्यक्षं साक्षात्कारि संवेदनम्, आदिशब्दादनुमानस्ववचनलोका गृह्यन्ते, 30 तैरनिराकृतोऽबाधितः पक्ष इति संबन्धः । तद्यथा-सर्वमनेकान्तात्मकम्,
25
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org