________________
न्यायावतारः, १३
10
हिनोति गमयति अर्थमिति हेतु:, तस्य साध्याविनाभुवः प्राङ्गनिरूपितस्य यद्वचः प्रतिपादकं संदर्शकं तद् अनुमानप्रकाशहेतुत्वात् परार्थमनुमानम् । तत्कीदृशमित्याह – पक्षो वक्ष्यमाणलक्षणः स आदिर्येषां हेतुदृष्टान्तोपनयनिगमादीनां तानि तथा तेषां वचनानि प्रतिपादका ध्वनयः, तान्येवात्मा स्वरूपं यस्य तत् पक्षादिवचनात्मकम् । ननु च हेतुप्रतिपादकं वचः परार्थमनुमानमित्यभिधाय तत् पक्षादिवचनात्मकमिति वदतः पूर्वापरव्याहता वाचोयुक्तिः, नैतदस्ति, एवं मन्यते नैकः प्रकारः परार्थानुमानस्य किं तर्हि यथा परस्य सुखेन प्रमेयप्रतीतिर्भवति तथा यत्नतः प्रत्यायनीयः । तत्र दशावयवं साधनं प्रतिपादनोपायः । तद्यथा- -पक्षादयः पञ्च, तच्छुद्धयश्च । तत्र यदा प्रतिपाद्यप्रक्रमादेव निर्णीतवक्षोऽविस्मृतदृष्टान्तः स्मायंप्रतिबन्ध - ग्राहकप्रमाणो व्युत्पन्नमतित्वात् शेषावयवाभ्यूहनसमर्थश्च भवति, यद्वा अत्यन्ताभ्यासेन परिकमितमतित्वात् तावतैव प्रस्तुतप्रमेयमवबुध्यते, तदा हेतुप्रतिपादनमेव क्रियते, शेषाभिधानस्य श्रोतृसंस्काराकारितया नैरर्थक्यादित्यादौ प्रतिपादनं सूत्रकृता परार्थमनुमानमुक्तम् । यदा तु प्रतिपाद्यस्य नाद्यापि पक्षनिर्णयः, तदा अकाण्ड एव हेतूपन्यासोऽदृष्टमुद्गरपातायमानः स्यादिति पक्षोऽपि निर्दिश्यते । तथास्मर्यमाणे प्रतिबन्धग्राहिणि प्रमाणे दृष्टान्तोऽपि वर्णेत, अन्यथा हेतोः सामर्थ्यानवगतेः । स्मृतेऽपि प्रमाणे दान्तिके योजयितुमजानानस्योपनयो दर्श्यते; तथापि साकाङ्क्षस्य निगमनमुच्यते, अन्यथा निराकुलप्रस्तुतार्थासिद्धेः । तथा यत्र पक्षादौ स्वरूपविप्रतिपत्तिस्तत्र तच्छुद्धिः प्रमाणेन कर्तव्या, इतरथा तेषां स्वसाध्यासाधनात् । सर्वेषां चामीषां साधनावयवत्वम्, प्रतिपाद्यप्रतीत्युपायत्वात् । ननु च स्वनिश्चयवत् परनिश्चयोत्पादनं परार्थमनुमानमुक्तम्, न च स्वार्थानुमान - काले क्रमोऽयमनुभूयते, संबन्धवेदिनो हेतुदर्शनमात्रात् साध्यप्रतीतिसिद्धेः, न हि प्रतिपत्ता पक्षं कृत्वा ततो हेतुं निभालयति, नापि दृष्टान्तादिकं विरचयति, तथा प्रतीतेरभावात् किं चान्वयव्यतिरेकाभ्यां हेतोरेव सामर्थ्यमुनीयते, न पक्षादीनाम्, तद्वयतिरेकेणापि साध्यसिद्धेः तथापि तेषां साधनांशत्वकल्पनेऽ नवस्थाप्रसङ्गात् । यदि च तत्सामर्थ्यं स्यात्, तदा पक्षोपन्यासमात्रादेव साध्यावगतेः हेतुरानर्थक्यमश्नुवीत, उत्तरावयवाश्च; एवं हि तत्सामर्थ्यं सिद्धनान्यथा । तस्माद्य एव परनिरपेक्षं साध्यं बोधयति स एव हेतुः साधनम्, न पक्षादय इति । अत्रोच्यते - स्वनिश्चयवत् परनिश्चयोत्पादनं 30
25
Jain Education International
-
61
For Personal & Private Use Only
5
15
20
www.jainelibrary.org