________________
60
न्यायावतारः, १२-१३
10
अग्निरत्र, धूमात्, यत्र यत्र धूमस्तत्र तत्राग्निः, यथा महानसादौ, वैधhण वा, अग्न्यभावे न क्वचिद् धूमः, यथा जलाशयादौ, तथा धूमोऽयम्, तस्माद् धूमादग्निरत्रेति । अव्युत्पन्नविस्मृतसंबन्धयोस्तथैव प्रतिपादयितुं शक्यत्वात्, स्मर्यमाणे संबन्धे पुनरेवम् – अग्निरत्र, धूमोपपत्तेः । वैधhण- अग्निरत्र, अन्यथा धूमानुपपत्तेः । प्रत्यक्षप्रतीतं पुनदर्शयन्नेतावद्वक्ति – पश्य राजा गच्छति । ततश्च वचनाद् द्विविधादपि समग्रसामग्रीकस्य प्रतिपाद्यस्यानुमेयप्रत्यक्षार्थविषया यतः प्रतीतिरुल्लसति, अतो द्वयोरपि परार्थतेत्याह-परस्य तदुपायत्वात् प्रतिपाद्यस्य प्रतीतिं प्रति प्रतिपादकस्थप्रत्यक्षानुमाननिर्णीतार्थप्रकाशनकारणत्वादित्यर्थः । एतेन पूर्वकारिकोक्तोपचारकारणं च लक्षयति । यच्चोक्तम्-न शब्दात् परस्य प्रत्यक्षोत्पत्तिः, तस्य विकल्पजनकत्वात्, प्रत्यक्षस्य स्वलक्षणविषयत्वेन निर्विकल्पकत्वात् । तदयुक्तम्, सामान्यविशेषात्मकार्थविषयस्य निर्णयरूपस्य तस्य कथंचिदेकविषयता शब्दोत्पाद्यत्वाविरोधात्, एवंविधस्य च प्रागेव समर्थनात् । चक्षुरादिसामग्रीतस्तदु
त्पद्यते न शब्दादिति चेत् । अनुमानमपि प्रत्यक्षादिनिश्चिताद् हेतोरवि15 स्मृतसंबन्धस्य प्रमातुरुल्लसति, न शब्दात्, अतस्तस्यापि परार्थता विशीर्येत ।
समर्थहेतुकथनात् तत्र वचनस्य परार्थतेति चेत्, अत्रापि दर्शनयोग्यार्थप्रतिपादनादिति ब्रूमः । तन्न प्रत्यक्षपरोक्षयोः पारायं प्रति विशेषोपलब्धिरिति मुच्यतां पक्षपातः ॥ ११॥
तदेवं द्वयोरपि परार्थतां प्रतिपाद्य तत्स्वरूपमाह - प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः । प्रत्यक्ष प्रतिभासस्य निमित्तत्वात्तदुच्यते ॥ १२ ॥
यद्वचः प्रत्यक्षप्रतिपन्नार्थप्रतिपादि साक्षात्कारिज्ञानगोचरकथनचतुरं तत् प्रत्यक्षमुच्यत इति संबन्धः । तच्च प्रत्यक्षरूपमेवोच्यमानं प्रत्यक्षं विप्रति
पन्नं प्रति पुनरनुमानद्वारेणोच्यमानमनुमानमेवेति । चशब्देनानेकार्थत्वाद् 25 दर्शयति-वचनं कुतः प्रत्यक्षम् इत्याह-प्रतिभासस्य निमित्तत्वात् प्रतिपाद्यप्रत्यक्षप्रकाशहेतुत्वाद् उपचारेणोच्यत इत्यर्थः ॥ १२ ॥
अनुमानमाहसाध्याविनाभुवो हेतोर्वचो यत्प्रतिपादकम् । परार्थमनुमानं तत्पक्षादिवचनात्मकम् ॥ १३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org