________________
न्यायावतारः, ११
59
15
प्रमेयपरिच्छेदज्ञानप्रादुर्भावनम्, यथा आत्मनोऽर्थनिर्णयस्तथा परेषां निर्णयजननमित्यर्थः । बुधर्विद्भिः । परस्मै अर्थः प्रयोजनं येन तत् परार्थम्, मीयतेऽनेनेति मानम्, आख्यातं कथितम् । ननु च यदि निश्चयोत्पादनं परार्थमानम्, तथा ज्ञानमपि परप्रत्यायनाय व्याप्रियमाणं परार्थं प्राप्नोतीत्याह-वाक्यं परार्थ, न ज्ञानम्, तस्यैवानन्तर्येण व्यापारात्, परप्रयोजन- 5 मात्रत्वाच्च, इतरस्य तु व्यवहितत्वात्, स्वपरोपकारित्वाच्च । कथं वचनमज्ञानरूपं प्रमाणमित्याह- तदुपचारतः तस्य ज्ञानस्योपचारोऽतद्रूपस्यापि तदङ्गतया तद्रूपत्वेन ग्रहणम् । तत इदमुक्तं भवति–प्रतिपाद्यगतमुत्पश्यमानं यज्ज्ञानं तदव्यवहितकारणत्वाद् वचनमप्युपचारेण प्रमाणमित्युच्यते । तत्रानुमानस्य पारायं परैरभ्युपगतमेव प्रत्यक्षस्य न प्रतिपद्यन्ते किलेदं 10 शब्दप्रवेशशून्यं स्वलक्षणग्राहीति नैतद्गोचरः परेभ्यः प्रतिपादयितुं पार्यते । न च शब्दात् परस्य स्वलक्षणग्रहणदक्षं प्रत्यक्षमुन्मक्ष्यति, शब्दस्य विकल्पोत्पादितत्वेन परस्यापि विकल्पोत्पादकत्वात् । तदुक्तम् -
विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः ।
कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि ॥ इति ॥ १०॥ निर्विकल्पकं च प्रत्यक्षम्, अतो न शब्दजन्यमित्यतोऽनुमानं दृष्टान्तीकृत्य प्रत्यक्षस्यापि परार्थतां साधयितुमाह
प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात्परार्थत्वं द्वयोरपि ॥ ११ ॥ 20
प्रत्यक्षेणाप्यनुमाननेव प्रसिद्धार्थप्रकाशनात् स्वप्रतीतप्रमेयप्रत्यायकत्वात् परार्थत्वं प्रतिपाद्यप्रयोजनत्वं द्वयोरपि प्रत्यक्षानुमानयोः, तुल्यकारणत्वात्, नानुमानस्यैवैकस्येत्यभिप्रायः । इह चाश्रूयमाणत्वात् तदर्थगमनाच्च अपीवशब्दौ लप्तनिर्दिष्टौ द्रष्टव्यौ । प्रत्यक्षप्रतीतार्थप्रत्यायनं च प्रतिजानानस्यायमभिप्रायः यत् परो मन्यते, नैतद् गोचरं परेभ्यः प्रतिपादयितुं पार्यत इति । 25 तदयुक्तम्, निर्विकल्पकाध्यक्षापोहेन व्यवसायरूपस्य प्रत्यक्षस्य प्रागेव साधितत्वात्, तद्गोचरस्य कथंचिद् विकल्पगम्यत्वेन शब्दप्रतिपाद्यत्वात् । तद्यथा अनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानम्, तथा प्रत्यक्षप्रतीतोऽपि परायं प्रत्यक्षम्, परप्रत्यायनस्य तुल्यत्वाद्, वचनव्यापारस्यैव भेदात् । तथा हि - अनुमानप्रतीतं प्रत्याययन्नेवं वचनयति- 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org