________________
58
न्यायावतारः, ९-१०
10
15
आप्तोपज्ञमनुल्लङ्घ्यमदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत्सावं शास्त्रं कापथघट्टनम् ॥ ९ ॥
शास्ति शिक्षयति जीवाजीवादि तत्त्वं ग्राहयति, शिष्यतेऽनेनेति वा शास्त्रम् । तत् किंभूतमिति तद्विशेषणान्याह-आप्तः प्रक्षीणाशेषरागादिदोषगणः, तेन उपज्ञम् आदावुपलब्धम् । अनेनापौरुषेयापोहमाह, तस्य प्रमाणबाधितत्वात् पुरुषव्यापाराभावे वचनानुपलब्धेः, उपलम्भेऽपि तदर्थानवगमात्, तदर्थनिश्चयार्थ पुरुषाश्रयणे गजस्नानन्यायप्रसङ्गात, तस्य रागादिकलुषितत्वेन वितथार्थकथनप्रवृत्तः, तदनुष्ठानादपि स्वकार्यसिद्धौ प्रणयनार्थमपि पुरुषः किं नेष्यते । विशेषाभावात् । तन्न क्षीणदोषवचनं व्यतिरिच्यान्यतः प्रेक्षावतां परलोकादावदृष्टेऽर्थे प्रवृत्तियुक्ता, तत् तदेव शास्त्रं, निरुपचरितशब्दार्थोपपत्तेरित्यास्तां तावत् । अत एव उल्लङ्घयते प्राबल्येन गम्यते अभिभूयते अन्यरित्युल्लङ्घ्यम्, ततोऽन्यद् अनुल्लध्यम् सर्ववचनातिशायीति यावत् । अत एव दृष्टेन प्रमाणनिर्णीतेनेष्टस्य तद्वाच्यस्य विरोधो यस्मिस्तत् तथा तदेव, यदि वा, दृष्टः प्रमाणेन, इष्टो वचनान्तरेण, तयोर्विरोधकम्, तद्विरुद्धार्थाभिधानात्, ततोऽन्यददृष्टष्टविरोधकम्, अबाधार्थाभिधायीत्यर्थः । तदियता शास्त्रस्य स्वार्थसंपदुक्ता, अधुना तत्त्वोपदेशादीनां परार्थत्वात् परार्थसंपदमाह -तत्त्वं जीवादयः पदार्थाः, प्रमाणप्रतिष्ठितत्वात्, तेषामुपदेशः स्वरूपप्रकाशनम्, तद्रक्षणादिविधानं वा, तं करोति इति तत्त्वोपदेशकृत्, अत एव सावं सर्वस्मै हितम्, प्राणिरक्षणोपायोपदेशपरमपददायितया विश्वजनीनत्वात् । एतेन परार्थसंपादकत्वमुक्तम् । अधुना परेषामेवानर्थपरिघातित्वमाह-कुत्सिताः पन्थानः कापथाः तीर्थान्तराणि, तेषां घट्टनं विचालकं निराकारकम्, सर्वजनापकारिकुमतविध्वंसकमित्यर्थः। ईदृशादेव शास्त्राज्जातं शाब्दं प्रमाणम्, नान्येभ्यः, विप्रलम्भकत्वात्तेषामिति ॥९॥
___ अधुना परार्थानुमानलक्षणं वक्तव्यम्, तच्च प्रत्यक्षेऽपि पश्यन् एकयोग25 क्षेमत्वात् सामान्येनाह -
स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः । परार्थं मानमाख्यातं वाक्यं तदुपचारतः ॥ १० ॥
अत्र परार्थ मानमिति लक्ष्यम, स्वनिश्चयवदित्यादि लक्षणम, स्व आत्मा तस्य निश्चयः प्रमेयाधिगमः, तद्वदन्येषां प्रतिपाद्यानां निश्चयोत्पादनं
20
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org