________________
7
न्यायावतारः, ८
दृष्टेष्टाव्याहताद्वाक्यात्परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् ॥८॥
अत्रापि शाब्दम् इति लक्ष्यम्, अनूद्यत्वात् । दृष्टेष्टाव्याहताद् इत्यादि लक्षणम्, विधेयत्वात् । दृष्टेन प्रमाणालोकितेन इष्टः प्रतिपिपादयिषितोऽव्याहतो अनिराकृतः सामर्थ्यादों यस्मिन् वाक्ये तत्तथा, प्रमाणनिश्चितार्थाबाधित- 5 मिति यावत्, तस्मात् । परमोऽकृत्रिमः पुरुषोपयोगी शक्यानुष्ठानो वार्थो वाच्यस्तमभिधातुं शीलं यस्य तत् परमार्थाभिधायि, विशिष्टार्थदर्शकमित्यर्थः । ततः तत्त्वग्राहितयोत्पन्नं प्रकृतवाक्यप्रतिपाद्यादानशीलतया लब्धात्मसत्ताक यन्मानं तच्छाब्दमिति प्रकीर्तितम् उपवर्णितं पूर्वाचारिति संबन्धः । तत्र दृष्टेष्टाव्याहताद् इत्यनेन कुतीर्थिकवचसा लौकिकविप्रतारकोक्तीनां च शाब्दतां 10 निरस्यति, प्रमाणबाधितत्वात् । वाक्यात् इत्यमुना तु वाक्यस्यैव नियतार्थदर्शकत्वात् परमार्थाभिधायितेति दर्शयन् पदाच्छाब्दाभावमाह । परमार्थाभिधायिनः इत्यनेन ज्वरहरतक्षकचूडारत्नालंकारोपदेशादिवचनप्रभवज्ञानस्य निष्फलतया प्रामाण्यं निराचष्टे । तत्त्वग्राहितयोत्पन्नम् इत्यमुना त्वेवंभूतादपि वाक्यात् श्रोतृदोषाद् विपरीताद्यर्थग्रहणचतुरतया प्रादुर्भूतस्य 15 शाब्दत्वं वारयति । मानम् इत्यनेन अन्तर्भावितप्रोपसर्गार्थेन शाब्दे परस्याप्रामाण्यबुद्धिं तिरस्कुरुते, तदप्रामाण्ये परार्थानुमानप्रलयप्रसङ्गात्, तस्य वचनरूपत्वात् । व्यवयवहेतुसूचकत्वेनोपचारतस्तस्य प्रामाण्यं न तत्त्वत इति चेत्, न, अप्रामाण्यस्य सूचकत्वायोगात् । ननु हेतुप्रतिपादने यदि तत् प्रमाणम्, ततो हेतुसमर्थकप्रमाणान्तरप्रतीक्षणं न विशीर्येत, तेनैव निर्णीत- 20 स्वरूपत्वात्तस्य प्रमाणसिद्धे पुनः प्रमाणान्तरवैयर्थ्यात् । नैतदस्ति, भवत्परिकल्पिताध्यक्षस्याप्रामाण्यप्रसङ्गात्, तद्दर्शितेऽर्थे विकल्पप्रतीक्षणात्तस्यैव प्रामाण्यमासज्येत । तद्गृहीतमेवार्थमसावभिलापयतीति चेत्, शब्दप्रतिपादितं हेतुं प्रमाणान्तरं समर्थयते इति समानो न्यायः ॥८॥
शाब्दं च द्विधा भवति – लौकिकं शास्त्रजं चेति । तत्रेदं द्वयोरपि 25 साधारणं लक्षणं प्रतिपादितम्, समर्थनं पुनरविप्रतारकवचनप्रभवस्येहादिवाक्यप्रस्ताव एव लौकिकस्य विहितम्, शास्त्रजस्य तु विधातव्यमिति यादृशः शास्त्रात्तज्जातं प्रमाणतामनुभवति तद्दर्शयति -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org