________________
56
न्यायावतारः, ७
संवेदनं परमार्थसंव्यवहारापेक्षया प्रत्यक्षाप्रत्यक्षसविकल्पकाविकल्पकभ्रान्ताभ्रान्तादिरूपमभ्युपयतो बहिरर्थे विरुद्धधर्माध्यासप्रतिषेधबुद्धिः केवलं जाडचं सूचयति । तन्न प्रमाणं कथंचिद् भ्रान्तं समस्ति, स्वरूपप्रच्यवप्रसङ्गादिति स्थितम् । ननु च तद्दर्शितार्थालोकतया ज्ञानस्य भ्रान्तता, न स्वरूपेण, न च तदुदयसमये कस्यचिदिदमलोकार्थम्, इदं त्वनलीकार्थमिति विवेकेनावधारणं समस्ति; भ्रान्तताभ्रान्तताभिमतयोस्तदेकरूपतया प्रकाशनात् । यदा च विशददर्शनपथचारिणोऽपि शशधरयुगलादयोऽलीकतामाविशन्तो दृश्यन्ते, तदा सकलसत्यार्थताभिमतप्रतिभासेष्वप्यलोकार्थताशङ्कानिवृत्तेरनाश्वास एव ।
न च तदर्थप्राप्त्यादिकमारेकानिराकरणकारणं कल्पनीयम्, स्वप्नावस्थायां 10 तत्सद्भावेऽप्यलोकार्थतासिद्धेः । बाधकप्रत्ययोपनिपातात् तस्यासत्यार्थतेति
चेत्, न, तस्य स्वगोचरपर्यवसितत्वेन बाधकत्वायोगात् । अन्यथा नीलमाददाना देवदत्तबुद्धिः प्राकप्रवृत्तपीतबद्धर्बाधिकापद्येत, सर्वप्रतिभासस्य बाधकाभावसिद्धेश्च समानता । तस्माद् भ्रान्ताभ्रान्तज्ञानभ्रान्तिरियं भवताम्, विवेकाभावेन सर्वस्यालोकार्थत्वादिति ॥ ६॥
अत्राहसकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम् । प्रमाणं स्वान्यनिश्चायि द्वयसिद्धौ प्रसिध्यति ॥ ७ ॥
एवं मन्यते – योऽपि समस्तसंवेदनस्य भ्रान्ततां प्रतिजानीते, तेनापि तत्साधकस्याभ्रान्तताभ्युपगन्तव्या, तद्भ्रान्तत्वे तत्प्रतिपादितार्थालोकत्वेन 20 सकलज्ञानाभ्रान्तताप्रसङ्गात्, अन्यथा तभ्रान्तत्वायोगात् । एवं च तज्जा
तीयमन्यदप्यभ्रान्तं स्यात्, ततश्च सकलप्रतिभासस्य समस्तसंवेदनस्य भ्रान्तत्वासिद्धितो विपर्यस्तत्वानिष्पत्तेः यत् स्फुटं स्वान्यनिश्चायि सुनिश्चिततया स्वपरप्रकाशकं तत्प्रमाणमिति संबन्धः । तच्च द्वयसिद्धौ स्वरूपार्थलक्षणयुग्म
निष्पत्तौ प्रसिद्धयति निष्पद्यते, अन्यथा प्रमेयाभावे प्रमाणाभावात् । तस्मात् 25 प्रमाणमुररीकुर्वाणेनार्थोऽप्यभ्युपगन्तव्य इत्यभिप्राय इति ॥ ७ ॥
तदेवं स्वार्थानुमानलक्षणं प्रतिपाद्य तद्वतां भ्रान्तताविप्रतिपत्तिं च निराकृत्याधुनाप्रतिपादितपरार्थानुमानलक्षण एवाल्पवक्तव्यत्वात् तावच्छाब्दलक्षणमाह
15
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org