________________
न्यायावतारः, ६
55
ग्राह्याकारोऽलोकः, तदलोकतायां ग्राहकाकारोऽपि नावस्थानमाबध्नाति, ग्राह्याभावे ग्राहकायोगात्, तदपेक्षयैव तत्स्वरूपस्थितिः, ग्राह्यग्राहकाकारविलये च बोधाकारोऽवशिष्यते, तस्य सर्वत्राव्यभिचरितरूपत्वात्, तस्मात् स एव पारमार्थिक इति । अत्र प्रतिविधीयते - यदवादि संवेदनमद्वयं पारमार्थिकम्, ग्राह्यग्राहकाकारप्रवृत्तं पुनरतात्त्विकमिति, तदयुक्तम्, प्रमाणाभावात् । 5. तथा हि-बहिरन्तश्चानेकाकारतया हर्षविषादादिभिः स्थिरस्थूरताद्यनेकधर्मपरिकरितार्थग्रहणपरिणामैश्च विवर्तमानं संवेदनमुपलभ्यते, न पुनर्वेद्यवेदकाकारविविक्तं यादृग् भवद्भिरुपवर्ण्यते ज्ञानं तादृशं कस्यचित् कदाचन प्रतीतिगोचरचारितामनुभवति, अद्वयप्रतिभासस्य स्वप्नदशायामप्यननुभूतेः । न च तत्त्वचिन्तका अपि प्रमाणमन्तरेण स्वाकूतं प्रतिष्ठापयन्तः प्रेक्षावतामव- 10. धेयवचना भवन्ति, अन्यथैकं चेतनमव्ययमपि ब्रह्मानेकमचेतनं क्षणभङ्गुरताक्रान्तमविद्यातः प्रथत इति ब्रुवाणोऽनिराकार्यः स्यात् । यदपि बहिरर्थनिराकरणधिया अवयव्यवयवद्वारेण दूषणमदायि, तदपि बहिरन्तःप्रथमानसकलासुमत्प्रतीतप्रतिभासमुद्गरनिर्दलितशरीरतया भक्तमध्यनिष्ठद्यूतदर्शिनः पुरतो विप्रतारणप्रवणकुट्टिनीशपथप्रायमिति न विद्वज्जनमनांसि रञ्जयति, प्रत्यक्ष- 15 प्रतिभासापह्नवे तन्मूलकत्वात् कुयुक्तिविकल्पानामुत्थानाभावात् । किं च संवेदनस्यापि सितासिताद्यनेकाकारेष्वेकस्य वर्तने भेदाभेदसामस्त्यैकदेशादिचोद्यं समानमेवेति न दूषणम् । अनेकाकारविवर्तस्यालीकत्वान्न तेन सह संवेदनस्य पारमार्थिकस्य भेदाभेदादिचिन्तेति चेत्, ननु एवमितरेतराश्रयं दुरुत्तरमाढौकते । तथा हि-तदलोकत्वसिद्धावद्वयसंवेदनसिद्धिः, तत्सिद्धौ च 20: तदलीकत्वमिति न्यायात् । अन्यच्च अद्वयमप्येकक्षणवर्ति संवेदनं तथा पूर्वोत्तरक्षणाभ्यां संबन्धमनुभवति, तथा निरंशा अपि यदि परमाणवो दिगंशैः परमाण्वन्तरैर्वा संश्लेषमागच्छेयुः किमयुक्तं स्यात् । न चावयव्यवयवयोरेकान्तव्यतिरेकाव्यतिरेकपक्षे यद्दषणं तदस्मत्पक्षबाधाकरम्, परस्पराविनि ठितरूपयोर्विवक्षया संदर्शनीयभेदयोस्तयोरभ्युपगमात्, बहिरन्तश्च तथैव 25 प्रकाशमानतया तयोर्निह्नोतुमशक्यत्वात् । एतेन रागारागकम्पाकम्पादिविरोधोद्भावनमपि प्रतिव्यूढम्, प्रमाणप्रसिद्धेऽर्थे विरोधाभावात्, प्रमाणबाधितस्यैव विरुद्धत्वात्, कुयुक्तिविकल्पानां च प्रत्यक्षापह्नवे निर्मूलतया बाधकत्वायोगात्, तदुद्दलितत्वेनोत्थानाभावात्, भिन्नप्रवृत्तिनिमित्तत्वाच्च सर्वधर्माणां तद्विपर्ययसंपाद्यो विरोधो दुरापास्त एव । किं च, स्वयमेव 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org