________________
54
न्यायावतारः, ६
यद्भवतश्चेतसि विवर्तते, यदुत न केवलमनुमानं भ्रान्तम्, किं तर्हि यद्भवद्भिदृष्टान्ततयोपात्तं प्रत्यक्षं तदपि भ्रान्तमेव, सर्वमालम्बने भ्रान्तमिति वचनात् । तदेतन, कुत इत्याह-प्रमाणत्वविनिश्चयादिति । प्रमाणभावनिर्णयादित्यर्थः । ननु च प्रमाणतामभ्रान्ततान्यथानुपपन्नां यदि परः प्रतिपद्येत, ततस्तामभ्युपगच्छन् कथं भ्रान्तताविप्रतिपत्तिं विदध्यादिति पार्वस्थितवचनावकाशमाशङ्कय, भ्रान्तताप्रमाणतयोर्विरोधसाधनेन ततः प्रमाणतां व्यावर्त्यानन्यशरणतया प्रतिज्ञाताभ्रान्तताक्रान्तां तां दर्शयन्नाह – भ्रान्तमित्यादि । भ्रान्तं विपर्यस्तं अथ च प्रमाणं ग्राह्यपरिच्छेदहेतुरित्येतद्वचनमेवं
विधार्थप्रत्यायको ध्वनिर्विरुद्धं, पूर्वापरव्याहतार्थगर्भकत्वात् । ननु च नैवास्य 10 विरुद्धता, तथा हि-अविदितपरमार्थव्यावहारिकाभिप्रायेण लोकसंवृतिं
घटयन्तो वयं दृढतरवासनाप्रबोधसंपादितसत्ताकयोः प्रत्यक्षानुमानयोः प्रमाणतामाचक्ष्महे, तदभिप्रायेण दर्शितार्थप्रापकत्वेन तयोरविसंवादकत्वात्, शिथिलवासनौन्मुख्यनिर्मितजन्मकयोः पुनरप्रमाणताम्, तदाकूतेनैव दर्शितेऽर्थे विप्र
लम्भनादिति, भ्रान्ततां पुनस्तत्त्वचिन्तकाभिप्रायेण सकलस्य बहिरुपप्लव15 मानस्य ग्राह्यग्राहकाकारकालष्यदूषितस्य प्रतिभासस्य पारमार्थिकाद्वयसंवेदन
विपर्यस्तरूपत्वादभिदध्महे, बहिः प्रतिभासस्य तद्ग्राह्यार्थविचाराक्षमतयोपप्लुतरूपत्वात् । तथा हि- अर्थोऽवयविरूपः अवयवरूपो वा स्यात्, गत्यन्तराभावात् । न तावदवयविरूपो विचारं क्षमते, अवयवविरहे अवयवि
त्वायोगात्, तेषु च तवृत्तिविकल्पानुपपत्तेः । तथा हि-तेषु असावेकदेशेन 20 वर्तते, सामस्त्येन वा । न तावदेकदेशेन, तस्य स्वयं निरवयवत्वात् ।
अवयववृत्तिनिमित्तमंशान्तरकल्पने तवृत्तावप्यंशान्तरकल्पनप्रसङ्गः, तथा चानवस्था । नापि सामस्त्येन, प्रत्यवयवं परिसमाप्तरूपतयावयविबहुत्वप्रसङ्गात् । भेदपक्षे दोषोऽयम्, अभेदपक्षे नास्तीति चेत्, न, तत्राप्यवयव
मात्रम् अवयविमानं वा स्यात्, इतरेतराव्यतिरिक्तत्वात, इतरेतरस्वरूपवत् । 25 किं च समस्तावयवव्यापिनोऽवयविनोऽभ्युपगमे पटादेरेकदेशरागकम्पदर्शनादिषु
सकलरागकम्पदर्शनादीनि दुर्निवाराणि स्युः, एकस्य रागारागादिविरुद्धधर्माध्यासायोगादिति । नाप्यवयवरूपोऽर्थो विचारगोचरचारी, करचरणशिरोग्रीवादीनामवयवानां स्वावयवापेक्षया अवयविरूपतया तद्दषणेनैवापास्तत्वात् ।
परमाणूनां निरंशतया अवयवत्वमुपपद्यत इति चेत्, न, तेषामपि दिषट्क30 संबन्धेन षडंशतापत्तः, अन्यथावस्थानाभावात्, ततश्चार्थविरहात्तदुन्मुखो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org