________________
न्यायावतारः, ६
शिष्यैर्न्यगादि - यदुत भ्रान्तमनुमानम्, सामान्यप्रतिभासित्वात् । तस्य च बहिः स्वलक्षणे व्यतिरेकाव्यति रेकविकल्पाभ्यामपाक्रियमाणतया अयोगात्, तद्रूपतया च तेन तस्याध्यवसायाद् अतस्मिंस्तद्ग्रहणस्य च भ्रान्तलक्षणत्वात् । प्रामाण्यं पुनः प्रणालिकया बहिः स्वलक्षणबलायातत्वादनुमानस्य । तथा हि- नार्थं विना तादात्म्यतदुत्पत्तिरूपसंबन्धप्रतिबद्धलिङ्गसद्भावः न 5 तद्विना तद्विषयं ज्ञानम्, न तज्ज्ञानमन्तरेण प्रागवधारितसंबन्धस्मरणम्, तदस्मरणे नानुमानमिति, अर्थाव्यभिचारित्वाद् भ्रान्तमपि प्रमाणमिति संगीर्यते । तदुक्तम् -
अतस्मिंस्तद्ग्रहो भ्रान्तिरपि संबन्धतः प्रमा ॥ इति ।
तदपाकर्तुमाह - तदभ्रान्तमित्यादि । तदनुमानं भ्राम्यति स्वगोचरे विपर्यस्यतीति भ्रान्तम्, ततोऽन्यदभ्रान्तम्, अविपरीतार्थग्राहीति यावत् इयं - च प्रतिज्ञा; प्रमीयते यथावस्थितोऽर्थः परिच्छिद्यतेऽनेनेति प्रमाणम्, तद्भावतत्त्वं तस्मात्, अयं तु हेतुः, संगतमक्षाणामिति समक्षम्, तदिव समक्षवदिति दृष्टान्तः तदिदमनुमानस्य भ्रान्ततानिराकारकं संपूर्णावयवम्, उपनयनिगमनयोरवयवत्रयप्रतिपादनेनैवाक्षिप्तत्वात् प्रमाणं सूचितम् । प्रयोगस्त्वेवं द्रष्टव्य :अभ्रान्तमनुमानम्, प्रमाणत्वात्, इह यत् यत् प्रमाणं तत्तदभ्रान्तं यथा समक्षम्, तथा च प्रमाणं भवद्भिरभ्युपगम्यते अनुमानम्, तस्मात्प्रमाणत्वादभ्रान्तमिति प्रतिपद्यन्तामिति । तत्रार्थवादी तावत्समक्षलक्षणे दृष्टान्ते साध्यविकलतामाविर्भावयितुं न पारयति स्वयमेव समक्षस्या भ्रान्ततयाभ्युपगमात् । शून्यवादिनः समस्तापलापित्वात् प्रमाणप्रमेयव्यवहारं प्रत्ययोग्यतैवेति न तमधिकृत्य स्वसाधनदोषाः परिहर्तव्याः, स्ववचनबाधितप्रतिज्ञत्वेन तद्वादोत्थानाभावात् । तथा हि- सर्वाभावप्रतिपादकं वचोऽस्ति नास्ति वा । यद्यस्ति तर्हि प्रतिज्ञाहानिः । अथ नास्ति, सकलभावसिद्धिः प्रतिषेधकाभावात् ॥ ५ ॥
ज्ञानवादी पुनर्वेद्यवेदकाकार विकलं सकलविकल्पगोचरातीतं निर्विकल्पकं विविक्तपारमार्थिकस्वसंवेदन वेद्यं संवेदन मागूर्यानादिकालालीन वासनाबलप्रभावितं प्राह्यग्राहकाकारकलुषितं बहिष्प्रथमानं निखिलमपि ज्ञानं विपर्यस्त - तया प्रतिजानानः समक्षलक्षणस्य प्रकृतदृष्टान्तस्य साध्यशून्यतामभिदध्यात्, अतस्तन्मतविकुट्टनार्थमाह -
1
न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् । भ्रान्तं प्रमाणमित्येतद्विरुद्धं वचनं यतः ॥ ६ ॥
Jain Education International
53:
For Personal & Private Use Only
10
15.
20
25
30
www.jainelibrary.org