________________
52
न्यायावतारः, ५
दयम् । पुष्पितकचूतात्पुष्पिताशेषचूतान्, चन्द्रोदयात्कुमुदाकरप्रबोधम्, वृक्षाच्छायामित्यादि पक्षधर्मत्वविरहेऽप्यनुमिमीमहे । कालादिकस्तत्र धर्मी समस्त्येव, तत्र पक्षधर्मता लिङ्गस्य गृह्यते इति चेन्न, अतिप्रसङ्गात् । एवं हि शब्दस्यानित्यत्वे साध्ये काककाादेरपि गमकत्वप्रसक्तेः; तत्रापि लोकादेर्धर्मिणः कल्पयितुं शक्यत्वात् । तथा अन्वयविकलेऽपि अनित्यः शब्दः, श्रावणत्वात्, इत्ययं सम्यग्हेतुतया समर्थयितुं शक्य इति । नान्वयोऽपि हेतोर्लक्षणम् । तथा हि-तावकाकतेनैव सकलं सत्त्वमनित्यतया क्रोडीकृतम, इति भावधर्मः श्रावणत्वं कथमनित्यतां विहाय विपक्षे वर्तितुमुत्सहेत,
तद्विकल्पस्य निःस्वभावतापत्तेः, अनित्यताविनिर्मुक्तस्य सत्त्वस्यासंभवात् । 10 एतेन सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वात्, निरात्मकत्वे तद्वैकल्यप्रसङ्गात्,
घटादिवद्, इत्ययमपि गमको व्याख्यातः, साध्यार्थान्यथानुपपन्नत्वस्यात्रापि सद्भावात् । पक्षधर्मत्वान्वययोस्त्वलक्षणतया प्रतिपादनात् । तथा कार्यस्वभावानुपलब्धिरूपलिङ्गत्रयनियमोऽपि किल तादात्म्यतदुत्पत्तिलक्षणसंबन्धा
स्तित्वमेतेष्वेवेति यः क्रियते, सोप्ययुक्तः, प्रकृतसंबन्धद्वयविकलस्यापि रूपादे 15 रसादिगमकत्वदर्शनात् । मा भूत्तस्य तादात्म्यतदुत्पत्तिभ्यां गमकत्वम्,
समवायाद्भविष्यति; तथापि नान्यथानुपपन्नत्वमेव हेतोर्लक्षणमिति यदि वैशेषिको मन्येत, सोऽन्यथा निलोंठनीयः । स हि विकल्पतः पर्यनुयोज्यः, समवायिभ्यः समवायोऽभिन्नो भिन्नो वा । यद्यभिन्नः, समवायिन एव तर्हि,
न समवायः, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत् । भिन्नश्चेत्, स कथं तेषु 20 वर्तेत सामस्त्येन आहोस्विदेकदेशेन । तद्यदि सामस्त्येन, तदयुक्तम्,
समवायबहुत्वप्रसङ्गात्, प्रतिसमवायि तस्य परिसमाप्ततावाप्तेः । अथैकदेशेन, तदप्यचारु, सांशताप्रसङ्गेन निरवयवत्वक्षतेः, स्वांशवर्तनेऽपि सामस्त्यैकदेशचोद्यावताराच्च । तत्रापि सामस्त्यपक्षे बहुत्वं तदवस्थमेव । एकदेशपक्षे
त्वंशान्तरप्रसङ्गेनानवस्था । तन्न समवायबलाद् गमकतां प्रत्याशा विधेया, 25 तस्यैव तत्र दुःस्थितत्वात् । एतेन संयोगिनोऽपि गमकता प्रत्युक्ता, समान
दूषणत्वात् । विरोधिनोऽपि विरुद्धाभावगमकत्वमन्यथानुपपन्नत्वमेव सूचयति, तदभावे गमकत्वायोगात् । एवं परपरिकल्पितमन्यदपि लिङ्गलक्षणं यद्गमकताङ्गं तदन्यथानुपपन्नत्वं न व्यभिचरति, साध्यं विनाप्युपपद्यमानस्य
गमकतावैकल्यादिति, अत्रैव व्यापके लिङ्गलक्षणे अन्तर्भावनीयम्, विपरीतं तु 30 निरसनीयमिति स्थितम् । तदेवमनुमानलक्षणं प्रतिपाद्याधुना यच्छौद्धोदनि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org