________________
न्यायावतारः, ५
51
यतोऽद्यापि शब्दस्यार्थान्यथानुपपन्नत्वमेव परे न प्रतिपद्यन्ते, न चापृथक्कृतस्य तद्विविक्तं वक्तुं शक्यम्, अतो भेदेनोपन्यासः ॥ ४ ॥
तत्र तावदनुमानलक्षणमभिधित्सुराह - साध्याविनाभुनो लिङ्गात्साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमाणत्वात्समक्षवत् ॥५॥ 5
साध्याविनेत्यादि । इहाप्यनुमानमिति लक्ष्यनिर्देशः, तस्य प्रसिद्धतया अनूद्यत्वात् । साध्याविनाभुनो लिङ्गात् साध्यनिश्चायकमिति लक्षणनिर्देशः, तस्याप्रसिद्धतया विधेयत्वादिति । अत्राप्यनुमानशब्दस्य कादिकारकव्युत्पत्तिक्रमेणार्थकथनं प्रमाणशब्दवद् द्रष्टव्यम् । ततश्चेहापि लिङ्गग्रहणसाध्याविनाभावित्वलक्षणलिङ्गसंबन्धस्मरणकालात् अनु पश्चान्मीयते परिच्छिद्यतेऽ- 10 र्थोऽनुमेयपावकादिर्येन ज्ञानेन तदनुमानमिति । तत् किंभूतमित्याह - साध्यनिश्चायकमिति । साधनमर्हति साधयितुं वा शक्य इति साध्योऽनुमेय इत्यर्थः, तस्य निश्चायकं तत्स्वरूपनिर्णायकमिति यावत् । तत्कुत इत्याहलिङ्गात, लिङ्गाचते गम्यतेऽर्थोऽनेनेति लिङ्ग हेतुः तस्मात् । किभूतादित्याह, साध्याविनाभुन इति । विना भवतीति विनाभु, ततोऽन्यदविनाभु, साध्येना- 15 विनाभु साध्याविनाभु, साध्यं विमुच्य यन्न भवतीत्यर्थः, तस्मात् साध्यनिश्चायकं ज्ञानं तदनुमानं स्मृतम् अभिप्रेतं नीतिविद्भिरिति संबन्धः । तत्र लिङ्गात् साध्यनिश्चायकमित्यनेनानुमानस्य प्रत्यक्षशब्दलक्षणसंकीर्णतां वारयति । साध्याविनाभुन इत्यनेन परप्रणीतलिङ्गलक्षणव्युदासमाचष्टे । ततश्च यत्परे प्रोचुः-पक्षधर्मत्वान्वयव्यतिरेकलक्षणरूपत्रयोपलक्षितानि त्रीण्येव लिङ्गानि 20 अनुपलब्धिः स्वभावः कार्य चेति । तदुक्तम् -
अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तितासति ।। निश्चितानुपलम्भात्मकार्याख्या हेतवस्त्रयः ॥ इति । तथान्ये अस्येदं कार्य कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्इति, तथा, पूर्ववत् शेषवत् सामान्यतोदृष्टमित्यादि । तद्बालप्रलपितप्राय- 25 मित्यवगन्तव्यम्, सर्वत्र साध्याविनाभावित्वस्यैव गमकत्वात् तद्रहितस्य तु
लक्षण्यलक्षितस्याप्यगमकत्वात्, इतरथा तत्पुत्रत्वादीनामपि गमकत्वप्रसङ्गात्, नियमवत् । त्रैलक्षण्यं लक्षणं न यत्किंचित्, तेनायमप्रसङ्ग इति चेन्न, नियमेन साध्याविनाभावित्वस्यवोद्दीपनात्, तच्चेदस्ति किं त्रैलक्षण्यापेक्षया, तस्यैव गमकत्वात् । तथा हि-जलचन्द्रानभश्चन्द्रम्, कृत्तिकोदयाच्छकटो- 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org