________________
50
न्यायावतारः, ४
प्रत्यक्षस्य प्रमातुरपि प्रतीतिगोचरचारितामनुभवति । अप्रतीतं चास्तीति श्रद्धातुं दुःशकम, अतिप्रसङ्गादित्यलक्षणम् । अभ्रान्तत्वमपि न जाघटीति, भवदभिप्रायेण स्थिरस्थूरार्थग्राहिणः संवेदनस्य विपर्यस्तरूपत्वात्, तद्विपरीतस्य तु स्वप्नकालेऽप्यप्रकाशमानत्वात् । तद्यदि यथावस्थितार्थनाहित्वमभ्रान्तत्वम्, तन्न संभवत्येव, विविक्तक्षणक्षयिपरमाणूनां कदाचिदप्यप्रतिभासात्, तेषां च पारमार्थिकत्वात् । अथ व्यावहारिकाभिप्रायेण यदिदं घटादिकं स्वलक्षणमर्थक्रियाक्षमम्, तत्र यन्न भ्राम्यति तदभ्रान्तमित्यभिप्रेतम्, तर्हि कल्पनापोढपदमुत्सारणीयम्, इदानीमनेन सहावस्थानाभावात् । व्यवहारावतारिणो
घटादिस्वलक्षणस्य निर्णयेनैव ग्रहणात्, अन्यथा व्यवहाराप्रवृत्तः, दृष्टस्याप्य10 दृष्टानतिशयनात् । तस्मात् व्यवसायात्मकमध्यक्षमित्येतदेव चार्विति
स्थितम् ॥ अपरोक्षतया- इत्यनेन तु परोक्षलक्षणसंकीर्णतामध्यक्षस्य परिहरति, तस्य साक्षात्कारितया अर्थग्रहणरूपत्वादिति । ईदृशम् इत्यमुना तु पूर्वोक्तन्यायात् सावधारणेन विशेषणकदम्बकसचिवज्ञानोपप्रदर्शनात् परपरि
कल्पितलक्षणयुक्तस्य प्रत्यक्षतां प्रतिक्षिपति । एवं च यदाहुः इन्द्रियार्थसंनि15 कर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्, तथा,
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् इत्यादि, तदयुक्तमित्युक्तं भवति, अपूर्वप्रादुर्भावस्य प्रमाणबाधितत्वात्, अत्यन्तासतां शशविषाणादीनामप्युत्पत्तिप्रसङ्गात् । तस्मादिदमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसंनिधानात साक्षादर्थग्रहणपरिणामरूपतया विवर्तेत, तथा चोत्पन्नजन्मादिविशेषणं न संभवेत् । अथैवंविधार्थसूचकमेवैतद् - इत्याचक्षीथाः, तथा सत्यविगानमेवेत्यास्तां तावत् । अधुना परोक्षलक्षणं दर्शयति–इतरदित्यादि । अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षमित्युक्तम्, तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यम् । एतदपि स्वसंवेदनापेक्षया प्रत्यक्षमेव,
बहिरर्थापेक्षया तु परोक्षव्यपदेशमश्नुत इति दर्शयन्नाह – ग्रहणेक्षया इति, 25 इह ग्रहणं प्रक्रमाद् बहिः प्रवर्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यं स्यात्,
तस्येक्षा अपेक्षा तया, बहिःप्रवृत्तिपर्यालोचनयेति यावत् । तदयमर्थःयद्यपि स्वयं प्रत्यक्षम्, तथापि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणे साक्षात्कारितया व्याप्रियते इति परोक्षमित्युच्यते । एतच्च बुभुत्सितार्थान्यथानुप
पन्नार्थान्तरप्रतीतिवशादुभयधर्मकमिति । सामान्यलक्षणसद्भावादेकाकारमपि 30 विप्रतिपत्तिनिराकरणा) द्विधा भिद्यते । तद्यथा अनुमान शाब्दं चेति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org