________________
न्यायावतारः, ४
49
शब्दं योजयति, अयोजितः शब्दो नार्थ निश्चाययति, अनिश्चितोऽर्थो न व्यवहारमवतरति, अनवतीर्णो नादृष्टाद्विशिष्यते, अविशिष्टः प्रमातुरान्ध्यं लक्षयतीति । तस्माद्यथाकथंचिनिर्णयाभावात् स्वयमप्रतीतमपि निर्विकल्पकदर्शनं वासनाप्रबोधद्वारेण विकल्पमुत्थाप्यात्मव्यापारमभिलापयति कतिचिदंशविषयम्, तथार्थोऽपि यदि चक्षुरादिसामग्यन्तःपातित्वेनाप्रतीत एव स्वयम्, 5 तथास्वभावत्वात् । संकेतकालभाविताभिलापसामान्यविषयात्मसंस्कारप्रबोधद्वारेणात्मविषयमभिलापसंसृष्टं संवेदनमुल्लासयेत् नात्यन्तमयुक्तं पश्यामः । न चायं सविकल्पको बोधो मनोराज्यादिविकल्पकल्पः । चक्षुरादिसामग्रीसंपाद्यत्वात् । इतरस्य तु मनोमात्रप्रभवत्वात् । अतः कथं तद्वद्विकल्पान्तराविर्भावे निवर्तेत । मानसविकल्पस्यैव विकल्पान्तरेण निवर्तनात्, अस्य तु 10 कारणसामर्थ्येन बलात् प्रवृत्तेः । एतेन संहृतसकलविकल्पावस्थायां नैष प्रादुःष्यादित्येतदपि प्रतिक्षिप्तम्, अस्य प्रमातुरिच्छया संहर्तुमशक्यत्वात्, मानसविकल्पसंहरण एव तत्सामोपपत्तेरिति । एतच्च शब्दसंपृक्तप्रत्यक्षपक्षादपि एकान्तनिर्विकल्पकप्रत्यक्षपक्षस्य पापीयस्तां दर्शयद्धिरस्माभिरुदग्राहि। परमार्थतः पुनः प्रत्यक्षे साक्षाच्छब्दोल्लेखो नेष्यते, विशदव्यवसायेनार्थसाक्षा- 15 स्करणचतुरत्वात्तस्य । केवलं तदपि संनिहितं परिस्फुटं स्वावयवव्यापिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्तम् अलक्षितपरमाणुपारिमाण्डल्यं पदार्थान्तरैः सह समानासमानाकारं स्वपरमाणनां सामान्याकारं स्तम्भादिकं पदार्थ गोचरयतीति सविकल्पमित्युच्यते, परपरिकल्पितक्षणक्षयिविविक्तपरमाणुलक्षणस्वलक्षणग्रहणप्रवणनिर्विकल्पप्रत्यक्षप्रतिषेधार्थ कथंचिदभिलापसंसर्गयोग्य- 20 गोचरतादर्शनार्थ वा । एवं च प्रत्यक्षगोचरीकृतेऽर्थे संज्ञासंज्ञिसंबन्धग्रहणादयस्तद्विषयाः शाब्दव्यवहाराः सर्व एव निरुपचरिता घटन्ते इत्युक्तं भवति । यदि पुनः शब्दसंसर्गयोग्यप्रतिभासमध्यक्षं न स्यात्, ततः को दोषः इति चेद्, विकल्पानुत्थानेन सविकल्पव्यवहारोच्छेदप्रसङ्गः । तथा हि-निर्व्यवसायं दर्शनमित्यतः पाटवोपेतमपि स्मृतिबीजाधानं तदुत्तरकालभावि वा तादृशार्थ- 25 दर्शनं तत्प्रबोधनमभ्यासवासनापाटवेऽपि न विधातुमलम्, यतः सामान्यविकल्पोत्पत्त्या व्यवहारः प्रवर्तेत, क्षणिकत्वादिषु सकलकालं निर्विकल्पकाध्यक्षदृष्टतयाभ्युपगतेष्वपि तददर्शनात् । तस्मात् यत्र कुत्रचिदर्थांशे पाश्चात्यव्यवहारप्रवृत्तिस्तत्र प्राचीनं संवेदनं निर्णायकमभ्युपगन्तव्यम्, अन्यथा क्षणिकत्वाद्यंशवत् सर्वांशेषु व्यवहारः प्रलीयेत । तन्न कदाचन कल्पनापोढत्वं 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org