________________
48
न्यायावतारः, ४
तावन्न गृह्णीयात्, संवेदनमपि तु स्मरणसंपादितं तदभिधायकध्वनिसंयोजनं प्रतीक्ष्यमाणं तावदासीत्, तर्हि दत्तो जलाञ्जलिरर्थग्रहणस्य । तथा हितमर्थमपश्यंस्तस्मिन् गृहीतसंकेतं तदभिधायकं ध्वनि नानुस्मरति, उपायाभावाद्, अननुस्मरंश्च पुरोवर्तिन्यर्थे न योजयति, स्मृत्युपस्थापनव्यतिरेकेण तद्योजनाशक्तेः, अयोजयंश्च भवदभिप्रायेण न पश्यतीति धान्ध्यादान्ध्यमापद्येत । यदि चेन्द्रियजमपि ज्ञानं विकल्पकलुषितमिष्येत, तदा तदपि मनोराज्यादिविकल्पवद् विकल्पान्तराविर्भावे सति निवर्तेत; नचैतदस्ति, संनिहितगोपिण्डगोचरस्य चक्षुर्जसंवेदनस्याश्वादिविषयविकल्पोदयेऽप्यनिवर्तनात्, संहृत्त
सकलविकल्पस्यापि च परिस्फुटसंनिहितार्थविषयदर्शनसिद्धः । तन्नाक्षजं 10 ज्ञानं शब्दसंपर्कमनुभवति । अत्र प्रतिविधीयते – यत्तावदुक्तम्, अशब्दकार्य
सामोद्भवत्वाद् ध्वनिरहितमध्यक्षमिति, तदयुक्तम्, न हि शब्दासंपृक्तार्थजमित्येतावतैवाभिलापविनाकृतमिति वक्तुं शक्यम्, अन्यथा जडार्थजनितमिति जडमपि तत् स्यात् । अथ बोधरूपमनस्कारसाहित्याद् न जडमिति ब्रूषे,
तथा सत्यभिलापसंसृष्टमनस्कारसंनियोगात् साभिलापमपि स्यात् । किं च 15 विविक्ताः परमाणवः स्वाकारार्पणद्वारेण स्वगोचरं ज्ञानमुत्पादयन्तः कथम
सन्तमात्मनि स्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं तत्र प्रथयन्ति । विभ्रमादिति चेन्न, इदानीमर्थे यदस्ति तदेव प्रतिभाति, तत्रासतोऽपि स्थूराकारस्य प्रतिभासनात् । तथा शब्दोऽपि यद्यविद्यमानोऽर्थे तद्ग्राहिणि
ज्ञाने प्रतिभासेत, किं झूयेत । यच्चोक्तं-स्मरणजनितशब्दसंयोजनं प्रतीक्ष्य20 माणमर्थोपयोगेऽपि यद्यासीतेत्यादि यावदान्ध्यमापद्येत तत् तावकपक्षेऽपि
समानम् । तथा हि-स्वलक्षणविषयेन्द्रियजनिर्विकल्पकज्ञानसद्भावेऽपि न तावदिदंतयानिदंतया वार्थव्यवस्थितिः; यावद्विधिप्रतिषेधद्वारेण विकल्पयुगलक पाश्चात्यं नोदयते, यत्रैवांशे विकल्पं जनयति, तत्रैवास्य प्रमाणता - इति
वचनात् । निर्विकल्पकस्य सतोऽपि व्यवहारं प्रत्यसत्कल्पत्वात् । स च 25 विकल्पः संकेतकालभावितमभिलापसामान्यमनुस्मरत एबोत्पत्तुमर्हति, अभि
लापसामान्यस्मरणबीजं च कुतः प्रबुध्येत । तादृशदर्शनादिति चेत्, ननु तदपि दर्शनं निर्विकल्पकत्वादर्थ नातिशेते, तत्कथं सामान्यविषयविकल्पबीजं प्रबोधयेत् । अर्थः पुनः सामान्यव्यवसायात्मिकां बुद्धिं न जनयेदिति भवतां
कदाग्रहः । तदर्थवत् तद्विषयं दर्शनं व्यवसायशून्यत्वात् नाभिलापसामान्य30 गोचरस्मरणबीजं प्रबोधयति, तदप्रबुद्धं न स्मरणं जनयति, अजातं स्मरणं न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org