________________
न्यायावतारः, ४
पद्यन्तेऽपरे । अतस्तल्लक्षणमपि वक्तव्यम्, इति तावत् प्रत्यक्षलक्षणमभिधातुकाम आह—
अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहणेक्षया ॥ ४ ॥
तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः, अपरोक्षतयार्थस्य ग्राहकं ज्ञानमिति लक्षणनिर्देशः परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया, साक्षात्कृततयेति यावत् । अर्यत इत्यर्थः, अवगम्यते इति हृदयम् । अर्थ्यत इत्यर्थो वा, दाहपाकाद्यर्थक्रियार्थिभिरभिलष्यते इति यावत् । तस्य ग्राहकं व्यवसायात्मकतया साक्षात् परिच्छेदकं ज्ञानं तदीदृशमिति, ईदृगेव प्रत्यक्षमिति संटङ्कः । तत्र ज्ञानग्रहणेन यत् सांख्या प्राहुः - श्रोत्रादिवृत्ति प्रत्यक्षमिति 10 तत् तिरस्करोति । श्रोत्रादीनां प्रकृतिविकारतया तद्वृत्तेर्व्यापारलक्षणाया जडतया प्रत्यक्षत्वायोगात्, अर्थपरिच्छित्तिहेतुतया प्रत्यक्षत्वे आलोकादिजडकारणकलापव्यापारस्यापि प्रत्यक्षतापद्येत, विशेषाभावादिति । अर्थस्य ग्राहकमित्यस्य ग्रहणेक्षया इति वक्ष्यमाणपदसापेक्षत्वात् । अमुना बहिरपि येsर्थकलाकलन विकलं सकलमपि ज्ञानं प्रलपन्ति तान्निरस्यति । स्वांशग्रहणे ह्यन्तः संवेदनं व्याप्रियते यथा तथा बहिरपि, इतरथा अर्थवज्ज्ञानसंतानान्तविशीर्येरन्, स्वप्नदृष्टान्तेन तदनुमानस्योपप्लवमात्रतापत्तेः, स्वविज्ञानस्यैव तथा तथा विजृम्भणात् । तथा च प्रमाणप्रमेयप्रतिपाद्यप्रतिपादककार्यकारणभावादयः प्रलीयेरन्, आत्मव्यतिरेकेणात्मीयपूर्वोत्तरक्षणयोरपि ज्ञानस्य प्रवृत्तिनिरोधापत्तेः । अद्वयविज्ञानतत्त्वसाधनेनानुकूलमाचरसीति चेत्, स्यादेतत्, 20 यदि भवतः प्रमाणपरिदृष्टसकलव्यवहारोच्छेदन कुदर्शन वासनाहिता दृष्टाद्वयतत्त्वपरिकल्पनात् प्रतिकूलं न स्यात् । तन्नार्थविरहेण बहिः प्रमाणभूतज्ञानोल्लासोऽस्ति, निर्हेतुकत्वप्रसङ्गादिति । ग्राहकमिति च निर्णायकं द्रष्टव्यम्, निर्णयाभावेऽर्थग्रहणायोगात् । तेन यत् ताथागतैः प्रत्यपादि
प्रत्यक्षं कल्पनापोढमभ्रान्तम् (न्या० बि० ४ ) इति
तदपास्तं भवति, तस्य युक्तिरिक्तत्वात् । तथा हि-ते निर्विकल्पकत्वेऽध्यक्षस्यायुक्तः खेटयन्ति - किलेदमर्थ सामर्थ्येनो दीयते, संनिहितार्थक्रियासमर्थार्थग्राहकत्वात् । न चार्थे ध्वनयः सन्ति, तद्धेतुविलक्षणकारणान्तरजन्यत्वात्, ततश्चासावुपनिपत्य स्वगोचरसंवेदनमुत्थापयन् स्वाकारमनुकारयति । तन्न, तद्ग्राहिणि विज्ञाने शब्दसंश्लेषो युक्तः । किं च यद्युत्पादकार्थोपयोगेऽपि तं 30
Jain Education International
47
For Personal & Private Use Only
5
15
25
www.jainelibrary.org