________________
46
एतदभ्यधायि भवता यथा - प्रसिद्धानि प्रमाणानि, ततस्तेषां लक्षणोक्तौ असाधारणधर्मकथन विषये प्रयोजनं फलं किमिति शेषः । तदेतदयक्तम् । यतो यद्यपि प्रतिप्राणि प्रसिद्धानि प्रमाणानि, अन्यथा तत्कृतनिखिलव्यवहारोच्छेदप्रसङ्गात्, तदुच्छेदे च दृष्टहान्याद्यापत्तेः, तथापि केचिद् विततमोहावष्टब्धान्तःकरणास्तत्स्वरूपमनुभवन्तोऽपि न लक्षयन्ति ततस्तानवलोकयतामस्माकं तद्विषये कृपापरीतचेतसां यथावस्थितप्रमाणलक्षणाविर्भावनद्वारेण व्यामोहमेतेषामपसारयाम इति प्रमाणलक्षणाभिधानं प्रति प्रवर्तते चेतः । तदिदं प्रयोजनम् - तद्व्यामोहनिवृत्तिः स्याद् – इति, तस्मिन् प्रमाणलक्षणे व्यामोहो विपरीताभ्युपगमवतां विपर्यासलक्षणस्तीर्थ्यानां प्रमाणाप्रमाणविवेकविकलानाम्, अनध्यवसायात्मकस्तु मुग्धबुद्धीनां लौकिकानाम्, तस्य निवृत्तिरविपरीतलक्षणावगमादपगम इत्यर्थः । सा स्याद् भवेत् । केषामित्याह - व्यामूढं विपरीतग्रहग्रस्तं विचित्ततां गतं मनोऽन्तःकरणं येषां ते तथा 15 तेषाम् । इहेति लोके । तदयं तात्पर्यार्थः यद्यनादिप्रसिद्धं प्रमाणलक्षणं प्रति केचिदपि न व्यामुह्येयुस्तदा यद् भवद्भिः प्रागुदग्राहि निरर्थकं प्रमाणलक्षणाभिधानमिति, तत् युक्तमेव स्यात् । न चैतदेवम्, तत्र व्यामूढानां दर्शनात् । एतेन यददायि दूषणं प्रमाणलक्षणमनिश्चितं निश्चितं वा अभिधीयत इत्यादि तदपि सिद्धसाध्यतामध्यप्रतिबद्धत्वान्न बाधाविधायि अस्माकमिति मन्तव्यम् । व्यामूढमनसोऽपि प्रति प्रमाणलक्षणप्रकाशने तल्लगतीति चेत्, न, स्वसंवेदनसिद्धस्य वचनेन प्रकाशनात्, तस्य व्यामोहापोह एव व्यापारात् । यथा विविक्तभूतलावलोकनेऽपि अध्यक्षाद् यो घटादिवैविक्त्यं न प्रतिपद्यते, कुदर्शनव्यामोहात्, तं प्रत्युच्येत नास्त्यत्र घटः, उपलम्भकारणसमग्रतायामप्यनुपलम्भात् । वैविक्त्यं हि तत्राध्यक्षसिद्धम्, 25 वचनाद् व्यामोहो निवर्त्येत; तथेहापि विद्वद्भिर्द्रष्टव्यम् । निर्णीतं तल्लक्षणमध्यक्षेण, तस्य व्यवसायरूपत्वात्; वचनं पुनर्विपरीतारोपनिराकरणे व्याप्रियत इति स्थितम् । तदेवं प्रमाणलक्षणं सामान्येन प्रतिपाद्य तद्गतकुचोद्यं पर्यहार्याचार्येण ॥ ३ ॥
5
10
20
न्यायावतारः, ३
प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । तद्वयामोहनिवृत्तिः स्याद्वयामूढमनसामिह ॥ ३ ॥
30
अधुना तद्विषयामेव संख्याविप्रतिपत्त निराचिकीर्षता ये प्रत्यक्षपरोक्षलक्षणे प्रमाणव्यक्ती प्राक प्रक्रान्ते, तयोरपि लक्षणं प्रति विप्रति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org