________________
न्यायावतारः, २
भिन्नमेव रूपं तात्त्विकं सामान्यस्य तस्यैव दाहपाकाद्यर्थक्रियाक्षमत्वात् । भिन्नं पुनः कल्पनाबुद्धिविरूपितत्वादवस्तुरूपमिति चेत्, न, द्वयोः प्रकाशमानयोरेकस्य निह्नोतुमशक्यत्वात् । अन्यथा भिन्नमेव रूपं स्वाभाविकमितरत्तु कल्पनाबुद्धिर्दाशतमित्यपि वदतां न वदनभङ्गः स्यात् । अर्थक्रियाकारिताविशेषस्तु भिन्नेऽपि रूपे न दुरुपपादः, तस्यापि ज्ञानसाधारणव्यवहारकरणदक्षत्वात् । न चार्थक्रिया वस्तुलक्षणमिति निवेदयिष्यामः, तस्मात्सर्वत्र भिन्नाभिन्नौ सामान्यविशेषाविति दर्शनार्थो बहुवचननिर्देशः । आस्तां तावत्प्रमाणानि, व्यवहारश्च तत्कृतः प्रसिद्ध इति संबन्धः । चशब्दोऽपिशब्दार्थः । तेनायमर्थः यदर्थं प्रमाणपरीक्षणमसावपि जलपानशीतत्राणादिर्व्यवहारोऽनादिरूढः, तन्निरर्थकं प्रमाणलक्षणाभिधानमित्यभिप्रायवानपि परः परुषतापरिजिहीर्षयात्मनोऽन्यथा प्राह - प्रमाणलक्षणस्योक्तौ पररूपव्यावर्तनक्षमासाधारणप्रमाणधर्मकथनरूपायां ज्ञायते निर्णीयतेऽस्माभिर्न प्रयोजनं तत्फलम्, अतिसूक्ष्मत्वात्तावकाभिसंधेरिति काक्वा प्रश्नयत्युल्लुण्ठयति चेति । किं च प्रमाणलक्षणमनिश्चितं वाभिधीयते, निश्चितं वा स्वरूपेणेति पक्षद्वयम् । न तावदनिश्चितम् अनिश्चितस्य 15 लक्षणत्वायोगात्, उन्मत्तकविरुतवत् । अथ निश्चितम् तत्किमप्रमाणात्प्रमाणाद्वा । न तावदप्रमाणात्, अप्रमाणस्य निश्चायकत्वायोगात् । यदि पुनरप्रमाणमपि निश्चायकमिति संगीर्येत तदा प्रमाणपर्येषणं विशीर्येत, नैरर्थक्यापत्तेः, अप्रमाणादपि निश्चायकत्वाभ्युपगमात् । अथ प्रमाणात, तत्किमलक्षणम्, लक्षणोपेतं वा । अलक्षणं चेन्निश्चायकं प्रमाणम्, तर्हि सर्वप्रमाणानां लक्षणाभिधानमनर्थकम्, तद्व्यतिरेकेणाप्यर्थनिश्चयसिद्धेः, भवदभिप्रेतलक्षणनिश्चायकप्रमाणवत् । अथ लक्षणोपेतम्, तत्रापि विकल्पयुगलमनिवारितप्रसरमनुधावति, तल्लक्षणं निश्चितमनिश्चितं वा I न तावदनिश्चितं लक्षणं लक्ष्यं लक्षयति । निश्चयोऽपि प्रमाणादप्रमाणाद्वा । अप्रमाणानिश्चयासिद्धेः प्रमाणादिति वक्तव्यम् । तदप्यलक्षणं सलक्षणं वा । अलक्षणत्वे पूर्वास्यार्थग्रहणे किं क्षूणम् । सलक्षणत्वे त्वेतल्लक्षणं निर्णीतनिर्णीतं चेति तदेवावर्तते । तन्न प्रमाणलक्षणाभिधानोपायोऽस्ति, तस्माप्रसिद्धानि प्रमाणानि इत्यङ्गीकर्तव्यमिति ॥ २ ॥
25
अधुनाचार्या गृहीतस्तावकीनोऽभिप्रायोऽस्माभिरिति परं प्रत्याययंस्तन्मतमनुद्राव्य तदेवानुमन्यमानस्तथापि लक्षणोक्तेः साफल्यमावेदयन्नाह -
Jain Education International
45
For Personal & Private Use Only
5
10
20
30
www.jainelibrary.org