________________
न्यायावतारः, २
कश्चिच्चक्षुरादिसामग्रीबललब्धसत्ताकः स्वावयवव्यापिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्तमलक्षितपरमाणुपारिमाण्डल्यं संनिहितं विशदनिर्भासं सामान्यमाकारं साक्षात्कुर्वाणः प्रकाशः प्रथते, तत्र प्रत्यक्षव्यवहारः प्रवर्तते । यः पुनर्लिङ्गशब्दारिद्वारेण नियतानियतसामान्याकारावलोकी परिस्फुटतारहितः खल्वात्मनोऽर्थग्रहणपरिणामः समुल्लसति स परोक्षतां स्वीकरोति । न चैतौ प्रकारौ विहाय प्रकारान्तरेण ज्ञानप्रवृत्तिं पश्यामः, न चापश्यन्तः प्रमाणान्तरपरिकल्पनं क्षमामहे, न च द्वयोः प्रथमानयोरेकं निह्नवानमुपेक्षामहे, विशेषाभावात्; तस्मादेतदेव द्वैविध्यमुररीकर्तव्यमिति स्थितम् ॥१॥
सांप्रतं यदस्माभिः प्राग विवृण्वद्भिर्युदपादि, यदुत विप्रतिपन्नाव्युत्पन्न10 व्यामोहापोहसहमिहेदं प्रमाणलक्षणमिति तत्सूत्रदर्शनादेव विमलबुद्धयोऽव
गच्छेयुः । मन्दमतयस्तु तावता न भोत्स्यन्त इति तद्धितविधित्सया व्यक्तं प्रमाणलक्षणाभिधानफलं प्रतिपिपादयिषुरपि सपूर्वपक्षं निराकाङ्क्ष लक्षयेयुस्ते इति तावत् पूर्वपक्षमुत्थापयन्नाह -
प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥ २ ॥
15
इह वचनमुच्चारयता विमृश्यभाषिणा प्रत्यवमृश्यम् - किमिदं मामकं वचनं श्रोतृसंस्काराधायकमत नेति । इतरथा पर्यालोचितकारितास्य हीयते । श्रोतृसंस्काराधायकं चेत्, उच्चारयति अन्यथा विपर्यय इति ।
एतत्तु प्रमाणलक्षणवाक्यं सकलजनानादिप्ररूढार्थप्रत्यायकत्वादश्रोतसंस्कारा20 धायकम् । अत आह–प्रसिद्धानि प्ररूढानि, नाधुना साध्यानीत्यर्थः ।
प्रमाणानि प्रत्यक्षादीनि, परोक्षगतभेदापेक्षया बहुवचनं व्यक्तिभेदे सामान्यमपि कथंचिद् भिद्यते इति दर्शनार्थम् । तथा हि । तदविवक्षितव्यक्तिकमेकरूपतां बिभर्ति प्रमाणमिति; व्यक्त्यवच्छेदेन पुनरवच्छिद्यमानं नाना
कारतामादत्ते प्रत्यक्षानुमानशाब्दानि प्रमाणानीति, व्यक्तिव्यतिरिक्ताव्यति25 रिक्तरूपत्वात्तस्य । तथा हि-शब्दाच्चक्षुरादेर्वा दूराद् वृक्ष इति प्रत्यये
धवखदिरपलाशादिविशेषानपेक्षया साधारणं वृक्षत्वमेव चकास्ति, तस्मात् तेभ्यो भिन्नं तद्, व्यतिरेकिणाकारेण ज्ञाने प्रतिभासनाद् घटादिवत् ।
परिस्फुटद्धवखदिरपलाशादिविशेषावलोकनवेलायां तु न तदतिरेकिणा रूपेण 29 प्रकाशते इत्यभिन्नम्, तदव्यतिरिक्तस्य संवेदनात्, तत्स्वरूपवत् । विशेषा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org