________________
न्यायावतारः, १
10
साधयति न सर्वत्र, स्वयमसिद्धत्वात् । स्वभावानुपलब्धिरप्येकज्ञानसंसर्गिपदार्थोपलम्भरूपा तद्देश एव प्रतिद्वन्द्व भावं गमयति । अतः प्रमाणान्तरस्यापि क्वचिन्निषेधः स्यात् न सर्वत्र । तन्न प्रमाणान्तरबाधकं समस्ति ॥ प्रत्यक्षानुमानयोश्च प्रामाण्यं कुत इति चिन्त्यम् । न तावत्प्रत्यक्षात्, तस्य निर्विकल्पकतया सतोऽप्यसत्कल्पत्वात् । तत्पृष्ठभावी विकल्पस्तु न स्वलक्षणाम्भोधिमध्यमवगाहते, तत्कथं तत्राप्रविष्टस्तत्स्वरूपं निश्चिनुयात् । अप्रमाणभूताच्च तस्मात्प्रामाण्यनिर्णय इति निबिडजडिमाविष्करणं भवताम् । अनुमानात्प्रामाण्यनिर्णय इति चेत्, न तस्यापि स्वलक्षणाद् बहिः प्लवनात् । अप्रामाण्यव्यवच्छेदस्तेन साध्यते इति चेत्, न, व्यवच्छेदस्य व्यवच्छिन्नाव्यतिरेकात्, इतरथान्धकारनर्तन कल्पमनुमानमासज्येत, निर्विषयत्वात् । किं च । तत्प्रामाण्यनिर्णायकमनुमानं प्रमाणमप्रमाणं वा । न तावदप्रमाणम्, ततः प्रामाण्यासिद्धेः । नापि प्रमाणम्, तत्प्रामाण्यसाधकाभावात् 1 न हि प्रत्यक्षात् तत्सिद्धिः, विकल्पशून्यतयाकिंचित्करत्वात् इत्युक्तम् । अनुमानात्तु तत्साधने विकल्पयुगलं तदवस्थमेवावतिष्ठते तत्प्रामाण्यसाधनेऽप्यनुमानकल्पना इत्यनवस्था । किं च । गृहीतसंबन्धस्यानुमानं प्रवर्तेत, संबन्धस्त्रिकालगोचरो ग्राह्यः, न च प्रत्यक्षं तं लक्षयितुं क्षमते, पूर्वापरक्षणत्रुटितरूपवार्तमानिकक्षणतदुत्तरकालभाविनो विकल्पस्यापि व्यावहारिकाभिप्रायेण तन्निष्ठताभ्युपगमात् । अनुमानाद् ग्रहीष्यति इति चेत्, ननु तदपि संबन्धपूर्वकं प्रवर्तते, तद्ग्रहणेऽपीयं वार्ता इति अनवस्था । तस्मादनुमानमभिलषता गत्यन्तराभावात् तत्संबन्धग्रहणप्रवणस्त्रिकालगोचरोऽव्यभिचारी वितर्कोऽभ्यु - 20 पगन्तव्यः । तथा च प्रस्तुतद्वैविध्यस्य विघटितत्वात्, अन्यदपि यदेवंविधमविसंवादि ज्ञानं तत्प्रमाणमस्तु इत्यलं शुष्काभिमानेनेति । यदि पुनः साध्यार्थान्यथानुपपन्न हेतुसंपादितमनुमानमिष्येत, तदा प्रत्यक्षमनुमानं चेत्यपि द्वैविध्यं घटामटेदेव; प्रत्यक्षव्यतिरिक्तज्ञानस्य सामस्त्येनानुमानेऽन्तर्भावसंभवात्, अन्यथानुपपन्नार्थान्तरमन्तरेण परोक्षार्थविषयप्रतीतेरभावादिति ॥
Jain Education International
43
For Personal & Private Use Only
5
15
सांप्रतमन्यथा सूत्रावयवेनैव प्रकृतनियमकारणमाह-मेयविनिश्चयादिति । द्विधैवेति च काकाक्षिगोलकन्यायेनात्रापि संबन्धनीयम् । ततश्चायमर्थःद्वाभ्यामेव प्रकाराभ्यां मेयस्य ग्राह्यार्थस्य निश्चयात् स्वरूपनिर्णयात्, द्वे एव प्रमाणे न न्यूनमधिकं चेति । अयमत्राभिप्रायः - स्वसंवेदनं प्रति निखिल - ज्ञानानामेकरूपतया साक्षात्करणचतुरत्वात् नास्त्येव भेदः; बहिरथं पुनरपेक्ष्य 30
25
www.jainelibrary.org