________________
न्यायावतारः, १
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥१॥
(श्लो० वा०, पृ० ४७३) इति वचनात् । तदयुक्तम् । यतः प्रमाणाभावः कथं ग्राह्यः । तद्ग्राहकप्रमाणान्तराभावादिति चेत्, तस्याप्यभावग्रहणे तद्ग्राहकप्रमाणान्तराभावो ग्राह्य इत्यनवस्था । अथ अर्थाभावात्प्रमाणस्य प्रमाणाभावाच्चार्थस्याभावः प्रतिपद्यत इति मन्येथाः, तदेतदितरेतराश्रयं दुर्घटमापद्येत । न यावदर्थाभावो गृहीतः तावत्प्रमाणाभावः सिध्यति, अर्थाभावः प्रमाणाभावात्से
त्स्यतीत्यावर्तनात् । अथेन्द्रियवत् स्वयमविज्ञातोऽपि प्रमाणाभावोऽर्थाभावं 10 ज्ञापयिष्यतीत्यभिदधीथाः, तदयुक्तम्, तस्य तुच्छतया सकलशक्तिविरह
लक्षणत्वात्, इन्द्रियस्य तु तद्विपर्यस्ततया ज्ञानोत्पादनक्षमत्वात् । तस्मात् प्रत्यक्षमेव भूतलादिप्रतिनियतवस्तुग्राहितां बिभर्ति । यदि तद्विपरीतघटादिप्रतियोगिवस्त्वन्तरवैविक्त्यं तस्याकलयति नान्यथा, विजातीयव्यवच्छेदाभावे
तस्यैव प्रतिनियतत्वासिद्धेः, सकलसंकीर्णतया ग्रहणप्रसङ्गात्, अतोऽधिक15 ग्राह्याभावानिर्विषयतयाभावाख्यं प्रमाणं यत् परैः पर्यकल्पि तदप्रमाणमिति स्थितम् ।
द्विधेत्यस्मिन् सत्यपि 'प्रत्यक्षं च परोक्षं च' इति नियतद्वैविध्यप्रदर्शनेन सौगतपरिकल्पितं 'प्रत्यक्षमनमानं चेति' द्वैविध्यमपक्षिपति, तदाकतेन तस्या
योगात् । प्रत्यक्षातिरिक्तं हि तादात्म्यतदुत्पत्तिलक्षणसंबन्धोपलक्षितकार्यस्व20 भावानुपलब्धिरूपलिङ्गत्रयसंपादितजन्मकमनुमानमेव प्रमाणं न शब्दोहादिकम्,
संबन्धविकलत्वादिति तदाकूतम् । अयुक्तं चैतत्, प्रत्यक्षानुमानातिरिक्तप्रमाणान्तराभावग्रहणोपायाभावात् । न तावत्प्रत्यक्षात् प्रमाणान्तराभावावगतिः, तस्य स्वलक्षणविषयत्वेनाभावग्राहिताविरोधात् । नापि स्वभाव
कार्यानुमानाभ्याम्, तयोर्वस्तुसाधनत्वात् । नाप्यनुपलब्धः, तस्या अप्यत्यन्ता25 भावसाधनविरोधात् । स हि चतुर्विधा वर्ण्यते मूलभेदापेक्षया । तद् यथा
विरुद्धोपलब्धिविरुद्धकार्योपलब्धिः कारणानुपलब्धिः स्वभावानुपलब्धिश्चेति । न तावद्विरुद्धोपलब्धेः प्रमाणान्तरस्यात्यन्ताभावः, दृश्यात्मनो विरुद्धस्य विधानेन इतराभावसाधनात्, संनिहितदेश एव प्रतियोग्यभावसिद्धेः । एतेन
विरुद्धकार्यानुपलब्धिरपि व्याख्याता, तस्या अपि प्रतिषेध्यविरोधिसंनिधापन30 द्वारेणाभावसाधकत्वात् । कार्यानुपलब्धिरपि तद्देशाङ्कितकार्यस्यैवाभावं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org