________________
न्यायावतारः, १
A1
सत्यमेतत्, एवं तु मन्यते तद् यद्यपि कयाचित्प्रक्रिययानुमानान्तर्भावयितुं शक्यं शाब्दम्, तथापि तत्प्रति विप्रतिपद्यन्ते परे । अतस्तस्याहत्य प्रामाण्यं समर्थनीयम् । न चापृथग्भूतस्य तद्विविक्तं वक्तुं शक्यम्, अतः पार्थक्येनोपन्यासः । अनेन चैतदुपलक्षयति - अन्येषामपि परोक्षविशेषाणामनुमानान्तर्भावसंभवेऽपि यं यं प्रति परेषां विप्रतिपत्तिस्तं तं परोक्षाग्निष्कृष्य विविक्त- 5 युक्त्युपन्यासेन तस्य तस्य प्रामाण्यमावेदनीयम् । तथा च शास्त्रान्तरे यहादीनां लक्षणं अकारि आचार्यस्तद् युक्तमेवेत्युक्तं भवति । कथं तर्हि मीमांसकपरिकल्पितोऽभावो न प्रमाणम् । निर्गोचरत्वादिति ब्रूमः । तथा हि-प्रत्यक्षमेवान्वयव्यतिरेकद्वारेण भूतलमेवेदं घटादिर्नास्तीति वस्तुपरिच्छेदप्रावीण्यमाबिभ्राणं तदधिकग्राह्यार्थाभावात् प्रमाणान्तरं परिकल्प्यमानं निरस्य- 10 तीति किं नश्चिन्तया । तस्य सदसद्रूपवस्तुग्राहिणः प्रतिप्राणि प्रसिद्धत्वात् । अथ कदाचिदभिदध्यात्, अध्यक्ष भावांशमेवाकलयति, इन्द्रियद्वारेणोत्पत्तः, तस्य च भावांशे एव व्यापारात्, नास्तिताज्ञानं तु वस्तुग्रहणोत्तरकालं प्रतियोगिस्मरणसद्भावे मानसमक्षव्यापारनिरपेक्षमुन्मज्जति । तदुक्तम्
न तावदिन्द्रियेणैषा' नास्तीत्युत्पाद्यते मतिः ।। भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥१॥
(श्लो० वा०, पृ० ४७९) गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥१॥ इति ।
(श्लो० वा०, पृ० ४८२) 20 अत्रोच्यते । भावांशादभावांशस्तर्हि अभिन्नो भिन्नो वा । अभिन्नश्चेत्, कथमग्रहणम्, भावांशादव्यतिरिक्तत्वादेव, तत्स्वरूपवत् । भिन्नश्चेत्, घटाद्यभावविनि ठितं भूतलमाद्यदर्शनेन गृह्यते इति घटादयो गृह्यन्ते इति प्राप्तम्, तदभावाग्रहणस्य तद्भावग्रहणनान्तरीयकत्वात् । तथा च अभावोऽपि पश्चात्प्रवर्तमानस्तानुत्सारयितुमपटिष्ठः स्यात्, अन्यथा प्रत्यक्षमसंकीर्णस्य 25 संकीर्णताग्रहणात् भ्रान्तमापनीपद्येत । किं च । प्रमाणाभावादर्थाभावोऽभावप्रमाणेन साध्यते इति भवतोऽभिप्रायः
15
1 "इन्द्रियैरेषा" इत्यपि पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org